Table of Contents

<<5-2-53 —- 5-2-55>>

5-2-54 द्वेस् तीयः

प्रथमावृत्तिः

TBD.

काशिका

द्विशब्दात् तीयः प्रत्ययो भवति तस्य पूरणे इत्यस्मिन् विषये। डटो ऽपवादः। द्व्योः पूरणः द्वितीयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1182 डटोऽपवादः. द्वयोः पूरणो द्वितीयः..

बालमनोरमा

1830 द्वेस्तीयः। द्विसब्दात्षष्ठ\उfffद्न्तात्पूरणे तीयप्रत्ययः स्यादित्यर्थः।

तत्त्वबोधिनी

1412 द्वेस्तीयः। डटोऽपवाद इति। डट आदेशस्तु न भवति, टिति `टिड्ढे'ति ङीपः प्रसक्त्या `द्वितीयाश्रिते'ति निर्देशानुपपत्तेः।अतएव निर्देशाद्द्विशब्दस्याप्यादेशो न भवति।

Satishji's सूत्र-सूचिः

TBD.