Table of Contents

<<5-2-42 —- 5-2-44>>

5-2-43 द्वित्रिभ्यां तयस्य अयज् वा

प्रथमावृत्तिः

TBD.

काशिका

पूर्वेण विहितस्य तयस्य द्वित्रिभ्यां परस्य वा अयजादेशो भवति। द्वौ अवयवौ अस्य द्वयम्, द्वितयम्। त्रयम्, त्रितयम्। तयग्रहणं स्थानिनिर्देशार्थम्। अन्यथा प्रत्ययान्तरम् अयज् विज्ञायेत। तत्र को दोषः? त्रयी गतिः इति तयनिबन्धन ईकारो न स्यात्, प्रथमचरमतयाल्पार्धकतिपय. नेमाश्च 1-1-33। इत्येष विधिर्न स्यात्। द्वये। द्वयाः। चकारः स्वरार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1176 द्वयम्. द्वितयम्. त्रयम्. त्रितयम्..

बालमनोरमा

1820 द्वित्रिभ्यां द्वित्रिभ्यां परस्य तयपोऽयज्वा स्यादित्यर्थः। द्वयमिति। द्विशब्दात्तयपोऽयचिः `यस्येति चे'ति इकारलोपः। द्व्यवयवकसमुदाय इत्यर्थः। एवम् त्रयम्।

तत्त्वबोधिनी

1406 त्रयमिति। ननु `त्रयोऽवयास्तन्तवो यस्य त्रयं सूत्र'मिति प्रयोगे संभवत्यपि `मुनित्रय 'मिति प्रयोगो न सङ्गच्छते, अन्यपदार्थस्यावयविनोऽभावादिति चेत्। अत्राहुः—अवयवी त्वत्र समुदाय एव। स चातिरिक्तो वाऽनतिरिक्तो वेति विचारान्तरम्। एवं च समुदायस्यातिरिक्तत्वपक्षेऽपि समुदायघटकत्वेन मुनीनां प्रत्यभिज्ञानान्मुनित्रयनमस्कारस्य विघ्नविघातकत्वमस्त्येवेति।

Satishji's सूत्र-सूचिः

TBD.