TBD.
उभशब्दात् परस्य तयपो नित्यम् अयजादेशो भवति, स चोदात्तः। वचनसामर्थ्यादादेरुदात्तत्वं विज्ञायते। उभशब्दो यति लौकिकी सङ्ख्या ततः पूर्वेण एव विहितस्य तयप आदेशविधानार्थं वचनम्। अथ न सङ्ख्या, ततो योगविभागेन तयपं विधाय तस्य नित्यम् अयजादेशो विधीयते। उभयो मणिः। उभये ऽस्य देवमनुष्याः।
TBD.
1177 उभशब्दात्तयपोऽयच् स्यात् स चाद्युदात्तः. उभयम्..
569 उभादुदात्तो नित्यं। स चोदात्त इति। आद्युदात्त इत्यर्थः। अन्तोदात्तत्वस्य चित्त्वेनैव सिद्धेरिति भाष्ये स्पष्टम्। अत्र `अयच्प्रत्यय एव विधीयते, नतु तयप आदेशः' इति स्थानिवत्सूत्रभाष्ये स्पष्टम्। `तयप आदेश' इति मूलं तु वार्तिकानुरोधेन। निरूपयितुमुपक्रमते – शेषात्कर्तरीति।
1407 उभादुदात्तो नित्यम्। इह `चितः'इत्यनेनैवान्तोदात्तत्वं सिद्धं, सर्वोदात्तत्वं तु `अनुदात्तं पदमेकवर्ज'मिति वचनाद्वाधितम्। न च हे उभयेति संबुद्ध्?यन्ते आमन्त्रिताद्युदात्तत्वं बाधितुं वचनमिति शङ्क्यं, पुरस्तादपवादन्येन चित्स्वरस्यैव बाध्यता, न त्वामन्त्रिताद्युदात्तत्वस्येति सुवचत्वात्। तस्मादुदात्तवचनसामथ्र्यादादेरेवायम्। प्रयुज्यते च तथा —`उभयं श्रृणवच्च न'इति। तदेतत्सकलमभिप्रेत्याह—स चेति।
TBD.