Table of Contents

<<1-1-32 —- 1-1-34>>

1-1-33 प्रथमचरमतयाल्पार्धकतिपयनेमाश् च

प्रथमावृत्तिः

TBD.

काशिका

विभाषा जसि 1-1-32 इति वर्तते। द्वन्द्वे इति निवृत्तम्। प्रथम चरम तय अल्प अर्ध कतिपय नेम इत्येते जसि विभाषा सर्वनामसंज्ञा भवन्ति। प्रथमे, प्रथमाः। चरमे, चरमाः। द्वितये, द्वितयाः। अल्पे, अल्पाः। अर्धे, अर्धाः। कतिपये, कतिपयः। नेमे, नेमाः। तय इति तयप् प्रत्ययः। शिष्टानि प्रातिपदिकानि। तत्र नेम इति सर्वादिषु पठ्यते, तस्य प्राप्ते विभषा, अन्येषाम् अप्राप्ते। उभयशब्दस्य तयप्प्रत्ययान्तस्य गने पाठान् नित्या सर्वनामसंज्ञा इह अपि जस्कार्यं प्रति विभाषा। काकचोर्यथायोगं वृत्तिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

160 एते जसि उक्तसंज्ञा वा स्युः. प्रथमे, प्रथमाः.. तयः प्रत्ययः. द्वितये, द्वितयाः. शेषं रामवत्.. नेमे, नेमाः. शेषं सर्ववत्.. (तीयस्य ङित्सु वा). द्वितीयस्मै, द्वितीयायेत्यादि. एवं तृतीयः.. निर्जरः..

बालमनोरमा

224 प्रथमचरम। `विभाषा जसी'त्यनुवर्तते, `सर्वनामानी'ति च। तदाह–एते इति। प्रतमादय इत्यर्थः। उक्तसंज्ञा इति। सर्वनामसंज्ञका इत्यर्थः। तत्र नेमशब्दस्य जसि सर्वनामसंज्ञा गणे पाठान्नित्या प्राप्ता। तद्विकल्पोऽत्र विधीयते। नेमशब्दव्यतिरिक्तानां प्रथमादिशब्दानां तु गणे पाठाऽभावादप्राप्तैव सर्वनामसंज्ञा जसि विकल्पेन विधीयते। अतो नेमशब्दव्यतिरिक्तानां प्रथमादिशब्दानां जसोऽन्यत्र न सर्वनामकार्यमित्याह-शेषं रामवदिति। तयप्प्रत्यय इति। `संख्याया अवयवे तयबिति विहित' इति शेषः। तत इति। तस्मात् प्रत्ययत्वाद्धेतोः प्रत्ययग्रहणपरिभाषया, तदन्ताः=तयबन्ता ग्राह्रा इत्यर्थः। द्वितये द्वितया इति। द्ववयववावस्येत्यर्थे तयप्। यद्यप्यवयवसमुदायोऽवयवी तयवर्थः, तस्य चैकत्वादेकवचनमेव युक्तन्तथापि यदोध्भूतावयवभेदः समुदायस्तयबर्थः, उद्भूतत्वं च विवक्षितसङ्ख्याकत्वं, तदाऽवयवबहुत्वाभिप्रायमवयविनोऽवयवाऽभेदाभिप्रायं वा बहु वचनमिति न दोषः। अत्र च तयब्ग्रहणमेव प्रमाणम्। अन्यथा तयबन्ताज्जस एवाऽभावा\उfffद्त्कतेन?। चरमे चरमाः। अल्पे अल्पाः। अर्धे अर्धाः। कतिपये कतिपयाः- इत्यपि प्रथमशब्दवदुदाहार्यम्। अर्धशब्दस्त्वेकदेशवाची पुंलिङ्गः। समांशवाची तु नपुंसकलिङ्गः। `वा पुंस्यर्धोऽर्धं समेंऽशके' इति कोशात्। शेषं सर्ववदिति। नेमशब्दस्य सर्वादिगणे पाठादिति भावः। जसी'त्यधिकारे तीयान्तस्य ङे-ङसि-ङस्#ःङि-इत्येतेषु ङित्सु परेषु सर्वनामसंज्ञावचनं कर्तव्यमित्यर्थः। द्वितीयस्मै द्वितीयायेति। द्वयोः पूरणो द्वितीयः। `द्वेस्तीय' इति पूरणे तीयप्रत्ययः। इत्यादीति। द्वितीयस्मात्, द्वितीयात्। द्वितीयस्मिन्, द्वितीये इत्यादिशब्दार्थः। एवं तृतीय इति। `ङित्सूदाहार्य' इति शेषः। `त्रेः संप्रसारणं चे'ति पूरणे तीयप्रत्ययः। रेफस्य संप्रसारणमृकारः। `संप्रसारणाच्चे'ति पूर्वरूपम्। ननु `प्रकारवचने जातीयर्' इति पटुशब्दाज्जातीयरि `पटुजातीय'शब्दः, तस्यापि तीयान्तत्वान्ङित्सु सर्वनामत्वविकल्पः स्यादित्यत आह–अर्थवदिति। `अर्थवद्ग्रहणे नानर्थकस्ये'ति परिभाषयाऽर्थवानेन तीयोऽत्र गृह्रते। जातीयरि तु समुदायस्यैवार्थवत्त्वं न तु तदेकदेशस्येति भावः। निष्क्रान्तो जराया निर्जरः। `निरादयः क्रान्ताद्यर्थे' इति समासः `गोस्त्रियोः' इति ह्यस्वत्वम्। निर्जरा जरा यस्मादिति बहुव्रीहिर्वा।

तत्त्वबोधिनी

189 प्रथमचरम। नेमशब्दस्य नित्यं प्राप्तेऽन्येषामप्राप्ते चायमारम्भः। तयः प्रत्यय इति। `सङ्ख्याया अवयवे तय'बिति विहितः। तीयस्येति। `द्वेस्तीयः', `त्रेः सम्प्रसारणं चेतिविहितस्य।

Satishji's सूत्र-सूचिः

TBD.