Table of Contents

<<5-2-41 —- 5-2-43>>

5-2-42 सङ्ख्याया अवयवे तयप्

प्रथमावृत्तिः

TBD.

काशिका

तदस्य इत्येव। सङ्ख्याया अवयवे वर्तमानायाः अस्य इति षष्ठ्यर्थे तयप् प्रत्ययो भवति। अवयवावयविनः सम्बन्धिनः इति सामर्थ्यातवयवी प्रत्ययार्थो विज्ञायते। पञ्च अवयवा यस्य पञ्चतयम्। दशतयम्। चतुष्टयम्। चतुष्टयी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1819 सङ्ख्यायाः। तदस्येत्यनुवर्तते। द्वित्र्यादिसङ्ख्याका अवयवा अस्यावयविन इति विग्रहे अवयवीभूतसङ्ख्यावाचिनः प्रथमान्तादस्यावयविन इत्यर्थे तयवित्यर्थः। पञ्चतयमिति। पञ्चावयवकः समुदाय इत्यर्थः।

तत्त्वबोधिनी

1405 संख्यायाः। अवयवे वर्तमाना या संख्या तद्वाचिनः प्रथमान्तात्षष्ठ\उfffदार्थे तयप् स्यात्। यं प्रत्यवयवः सोऽवयवी प्रत्ययार्थः, `अस्ये'त्यधिकारात्। यथा द्वयसजादिषु प्रमाणे प्रकृत्यर्थे प्रमेयं प्रत्ययार्थस्तद्वत्।

Satishji's सूत्र-सूचिः

TBD.