Table of Contents

<<5-2-10 —- 5-2-12>>

5-2-11 अवारपारात्यन्तानुकामं गामी

प्रथमावृत्तिः

TBD.

काशिका

अवारपार अत्यन्त अनुकाम इत्येतेभ्यो द्वितीयासमर्थेभ्यः गामी इत्येतस्मिन्नर्थे खः प्रत्ययो भवति। गमिष्यति इति गामी, भविष्यति गम्यादयः 3-3-3 इति। अकैनोर् भविस्यदाधमर्ण्ययोः 2-2-70। इति षष्ठीप्रतिषेधः। अवारपारं गामी अवारपारीणः। विपरीताच् च। पारावारीणः। विगृहीतादपि इष्यते। अवारीणः। अत्यन्तं गामी अत्यन्तीनः। भृशं गन्ता इत्यर्थः। अनुकामं गामी अनुकामीनः। यथा इष्टं गन्ता इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1789 अवारपार। अवारपार, अत्यन्त, अनुकाम–एभ्यो गामीत्यर्थे खः स्यादित्यर्थः। गामीत्यस्य अवश्यं गमिष्यन्नित्यर्थः। `आवश्यकाधमण्र्ययोर्णिनि'रिति णिनिः। `भविष्यति गम्यादयः' इति भविष्यत्कालता। `बहुलमाभीक्ष्ण्ये' इति वा णिनिः। अवारपारीण इति। अवारपारं गामीति विग्रहः। अवारपारशब्दाद्विगृहीताद्विपरीतादपि, व्याख्यानात्। तदाह–अवारीणः पारीण इति। अत्यन्तीन इति। अत्यन्तशब्दोऽत्र भृशवाची। तदाह–भृशं गन्तेति। अनुकाममिति। कामः=इच्छा। तामनतिक्रम्येत्यर्थः। पदार्थानतिवृत्तावव्यायीभावः।

तत्त्वबोधिनी

1379 अवारपार। गामीति। `गमेरिनिः, आङि णिच्चे'ति बहुलवचनात्केवलादपि णिनिः। `भविष्यति गम्यादयः'इति भविष्यत्कालता। न्यासकारस्तु `आवश्यके णिनिः, सोऽपि भविष्यत्येवे'त्याह। अवारपारमिति। अकतेनोर्भविष्यदाधमण्र्ययो'रिति षषाठीप्रतिषेधः। केचित्तु `गत्र्थकर्मणी'ति सूत्रे द्वितीयाग्रहणमपवादविषये विधानार्थम्। तेन कृद्योगषष्ठी न भवति `ग्रामं गन्ते'तिवदिति व्याचख्युः। तदसत्। `अकेनो'रिति प्रतिषेधे षष्ठीप्रसङ्गस्यैवाऽभावात्। अवारीण इत्यादि। `विगृहीताद्विपरीतादपीष्यते'इति भावः। अत्यन्तमिति। क्रियाविशेषणम्। अनुकाममिति। काम इच्छा , तस्य सदृशमनुकामम्। कामानुरूपमित्यर्थः। `अव्ययं विभक्ती'ति यथार्थेऽव्ययीभावः।

Satishji's सूत्र-सूचिः

TBD.