Table of Contents

<<5-2-9 —- 5-2-11>>

5-2-10 परोवरपरम्परपुत्रपौत्रम् अनुभवति

प्रथमावृत्तिः

TBD.

काशिका

परोवर परम्पर पुत्रपौत्र इत्येतेभ्यः तदिति द्वितीयासमर्थेभ्यः अनुभवति इत्यस्मिनर्थे खः प्रत्ययो भवति। परोवर इति परस्योत्वं प्रत्ययसंनियोगेन निपात्यते। परांश्च अवरांश्च अनुभवति परोवरीणः। परपरतराणां च परम्परभावो निपात्यते। परांश्च परतरांश्च अनुभवति परम्परीणः। पुत्रपौत्राननुभवति पुत्रपौत्रीणः। परम्परशब्दो विनापि प्रत्ययेन दृश्यते, मन्त्रिपरम्परा मन्त्रं भिनत्ति इति। तच्छब्दान्तरम् एव द्रष्टव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1788 परोवर। परोवर, परम्पर, पुत्रपौत्र-एभ्यो द्वितीयान्तेभ्योऽनुभवतीत्यर्थे खः स्यादित्यर्थः। परोवरीण इति। परे च अवरे च परावरे ताननुभवतीत्यर्थः। अवरस्योत्त्वमिति। अवरशब्दस्य आदेरकारस्य खप्रत्ययसंनियोगेन उत्त्वं निपात्यत इत्यर्थः। एवं च विग्रहवाक्ये इदमुत्त्वं न भवति। प्रकृतेरिति। परपरतरशब्दाद्द्वन्द्वात्खे सति तत्सन्नियोगेन प्रकृतेः परम्परभावो निपात्यत इत्यर्थः। नन्वेवं सति `कल्याणपरम्परे'त्यादौ कथं परम्पराशब्दः ?, परम्परभावस्य खप्रत्ययसन्नियोगशिष्टत्वादित्यत आह–परम्पराशब्दस्त्विति। तस्मादेवेति। `परम्परे'त्यव्युत्न्नप्रातिपदिकादेवेत्यर्थः। कथमिति। परावरशब्दाद्भावे वा स्वार्थे वा ष्यञि अवरस्यादेरुत्वे पारोवर्यशब्दान्मतुपि पारोवर्यवदिति कथमित्याक्षेपः, उत्त्वस्य खप्रत्ययसन्नियोगाशिष्टत्वादिति भावः। उत्त्वं दुरुपपादमेवेत्याह–असाधुरेवेति। नन्वत्र परोवरेति निर्देशात्– खादन्यत्राप्युत्त्वं किं न स्यादित्यत आह–खप्रत्ययसन्नियोगेनैवेति। अत एव भाष्ये `परांश्चावरंश्चानुभवती'त्येव विग्रहो दर्शित इति भावः।

तत्त्वबोधिनी

1378 अवरस्येति। `आदे'रिति शेषः। उत्वे कृते `आद्गुणः'। केचुत्तु ओत्वं परशब्दस्य निपात्यते, तस्मात्परस्याऽतः `एङः पदान्ता'दिति पूर्वरूपादेश इति पक्षान्तरमाहुः।

Satishji's सूत्र-सूचिः

TBD.