Table of Contents

<<5-2-11 —- 5-2-13>>

5-2-12 समांसमां विजायते

प्रथमावृत्तिः

TBD.

काशिका

समांसमाम् इति वीपसा। सुबन्तसमुदायः प्रकृतिः। विजायते गर्भं धारयति इति प्रत्ययार्थः। गर्भधारणेन सकला ऽपि समा व्याप्यते इति अत्यन्तसंयोगे द्वितीया। समांसमां विजायते समांसमीना गौः। समांसमीना वडवा। पूर्वपदे सुपो ऽलुग् वक्तव्यः। केचित् तु समायां विजायते इति विगृह्णन्ति, गर्भमोचने तु विजनिर् वर्तते इत्याहुः। तेषां पूर्वपदे यलोपमात्रं निपात्यते, परिशिष्टस्य अलुग् वक्तव्यः। अनुत्पत्तावुत्तरपदस्य च वा यलोपो वक्तव्यः। समांसमांविजायते, समायां समायां विजायते इति वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1790 समां समाम्। विपूर्वो जनिर्गर्भविमोचने वर्तते। विजायते=गर्भं विमुञ्चतीत्यर्थः। धात्वर्थेनोपसङ्ग्रहादकर्मकः। अतो न कर्मणि द्वितीया। गर्भविमोचनेन कृत्स्नायाः समाया अव्यापनादत्यन्तसंयोगलक्षणा द्वितीयापि न भवति। किंतु सप्तम्येव। तत्र सप्तम्यन्तस्य समाया'मित्यस्य `नित्यवीप्सयो'रिति द्विर्वचने समायां–समायामिति भवितव्यम्। तत्र पदद्वयमपि यकारलोपसहितं निर्दिश्यते–समां समामिति। समायां समायामित्यर्थः। एवं च समायां समायां विजायत इत्यर्थे सप्तम्यन्तद्वयसमुदायाद्विजायत इत्यर्थः। खः स्यादिति फलितम्। ननु सप्तम्यन्तद्वयसमुदायात्खप्रत्ययोत्पत्तौ तदन्तस्य समुदायस्य प्रातिपदिकत्वात्तदवयवयोः सप्तम्योर्लुकि `समासमीन' इति स्यात्, इष्यते तु `समांसमीने'ति। तदा–यलोप इति। पूर्वपदे विभक्ते तदवयवस्य यकारस्य लोपः अवशिष्यस्य विभक्त्यंशस्य अलुक्च निपात्यत इत्यर्थः। भाष्ये तु `यलोपनिपातनादवशिष्टविभक्त्यंशस्य न लु'गित्युक्तम्। ननु समां समामिति निर्देशादुत्तरपदेऽपि यकारलोपः, अवशिष्टविभक्त्यंशस्य अलुक्च स्यादित्यत आह– पूर्वपदे इति। `पूर्वपदस्य यलोपवचन'मिति वार्तिकादिति भावः।

कदाचित्खप्रत्ययाऽभावे सति `समायां समायं विजायते' इति वाक्यदशायां सप्तम्यन्तद्वये यकारलोपो वा वक्तव्य इत्यर्थः। तत्र पदद्वयेऽपि निपातनादेव यकारलोपः सिद्धः, सूत्रे उभयत्रापि तथोच्चारणात्। विकल्प एव तु यलोपस्य वाक्यदसायां वाचनिक इति बोध्यम्। एतत्सर्वं भाष्ये स्पष्टम्।

तत्त्वबोधिनी

1380 समांसमाम्। यलोप इति। `समाया'मित्यत्र यकारलोप इत्यर्थः। पूर्वपदे निपात्यत इति। अन्यथा तद्धिते उत्पन्ने यथोत्तरपदे सुपो लुग्भवति `सुपो धातुप्रातिपदिकयो'रिति, तथा पूर्वपदेऽपि स्यादिति भावः। समांसमीनेचि। वीप्सायां द्विर्वचनम्। सुबन्तसमुदायः प्रकृतिः। विजायत इत्येतद्व्याचष्टे—प्रसूयत इति। विपूर्वको जनिर्गर्भविमोचने वर्तत इति भावः। गर्भविमोचने कृत्स्नायाः समाया व्याप्त्यभावात् `अत्यन्तसंयोगे चे'ति द्वितीया नभवतीत्याशयेनाह— समायामित्यादि। `खप्रत्ययानुत्पत्ता'विति। वार्तिकेन समांसमामिति सौत्रप्रयोगस्तूपपन्न इति भावः। अद्य\उfffदाईना। अविभक्तिको निर्देशो न तु स्त्रीलिह्गनिर्देशोऽयम्, `अद्य\उfffदाईनो गोसमूहः ' `अद्य\उfffदाईनं गोमण्डल'मित्यादावपीष्टत्वात्।

Satishji's सूत्र-सूचिः

TBD.