Table of Contents

<<3-3-2 —- 3-3-4>>

3-3-3 भविष्यति गम्यादयः

प्रथमावृत्तिः

TBD.

काशिका

भविष्यति काले गम्यादयः शब्दाः साधवो भवन्ति। प्रत्ययस्य एव भविष्यत्कालता विधीयते न प्रकृतेः। गमी ग्रामम्। आगामी। प्रस्थायी। प्रतिरोधी। प्रतिबोधी। प्रतियोधी। प्रतियोगी। प्रतियायी। आयावी। भावी। अनद्यतन उपसङ्ख्यानम्। श्वो गमी ग्रामम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1505 भविष्यति गम्यादयः। गमिष्यतीति -गमी ग्रामम्। आगमिष्यतीति आगामी। गमेरिनिः। `आङि णित्' इत्याङ्पूर्वस्य तु णित्त्वादुपधावृद्धिः।

Satishji's सूत्र-सूचिः

TBD.