Table of Contents

<<5-1-93 —- 5-1-95>>

5-1-94 तदस्य ब्रह्मचर्यम्

प्रथमावृत्तिः

TBD.

काशिका

तदिति द्वितियासमर्थविभक्तिः। सा च अत्यन्तसंयोगे। अस्य इति प्रत्ययार्थः। ब्रहमचर्यम् इति द्वाभ्याम् अपि सम्बध्यते। कालस्य व्यापकं, प्रत्ययार्थस्य च स्वम् इति। तदिति द्वितीयासमर्थात् कालवाचिनः प्रातिपदिकादस्य इति षष्ठ्यर्थे ठञ् प्रत्ययो भवति, ब्रह्मचर्यं चेद् गम्यते। मासं ब्रह्मचर्यमस्य मासिकः ब्रह्मचारी। आर्धमासिकः। सांवत्सरिकः। अपरा वृत्तिः तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठञ् प्रत्ययो भवति, यत् तदस्य इति निर्दिष्टं ब्रह्मचर्यं चेद् तद् भवति। मासो ऽस्य ब्रहमचर्यसय् मासिकं ब्रहमचर्यम्। आर्धमासिकम्। सांवत्सरिकम्। पूर्वत्र ब्रहमचारी प्रत्ययार्थः, उत्तरत्र ब्रहमचर्यम् एव। उभयम् अपि प्रमाणम्, उभयथा सूत्रप्रणयनात्। महानाम्न्यादिभ्यः षष्ठीसमर्थेभ्य उपसङ्ख्यानम्। माहानामिकम्। गौदानिकम्। आदित्यव्रतिकम्। तच् चरति इति च। महानाम्न्य ऋचः, तत् सहचरितं व्रतं तच्छब्देन उच्यते। महानाम्नीश्चरति माहानामिकः। आदित्यव्रतिकः। गौदानिकः। भस्याढे इति पुंबद्भावेन ङीपि निवृत्ते नस् तद्धिते 6-4-144 इति टिलोपः। अवान्तरदीक्षादिभ्यो डिनिर्वक्तव्यः। अवान्तरदीक्षां चरति अवान्तरदीक्षी। तिलव्रती। अष्टाचत्वारिंशतो ड्वुंश्च डिनिश्च वक्तव्यः। अष्टाचत्वारिंशद् वर्षाणि व्रतं चरति अष्टाचत्वारिंशकः, अष्टाचत्वरिंशी। चातुर्मास्यानां यलोपश्च ड्वुंश्च डिनिश्च वक्तव्यः। चातुर्मास्यानि चरति चातुर्मासकः, चातुरमासी। चतुर्मास्याण् ण्यो यज्ञे तत्र भवे। चतुर्षु मासेषु भवानि चातुर्मास्यानि। संज्ञायामण् वक्तव्यः। चतुर्षु मासेषु भवा चातुर्मासी पौर्णमासी। आषाढी। कार्तिकी। फाल्गुनी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1735 तदस्य ब्राहृचर्यं। ननु द्वितीयान्तादिति, कथं सूत्रे ब्राहृचर्यविशेषणस्य तच्छब्दस्य प्रतमान्तत्वादित्यत आह–अत्यन्तेति। तता च कालविशेषाभिव्याप्तं ब्राहृचर्यमस्येत्यर्थे कालात्प्रत्ययः। इदमर्थं प्रति ब्राहृचर्यं विशेषणम्। मासिको ब्राह्वचारीति। मासाभिव्याप्तब्राहृचर्यवानित्यर्थः। आर्धमासिक इति। `अर्धात्परिमाणस्ये'त्युभयपदवृद्धिः। अत्र इदंशब्दार्थस्य ब्राहृचर्यमिति षष्ठ\उfffद्र्थे प्रथमा। तथाच प्रथमान्तात्कालवाचिनोऽस्य ब्राहृचर्यस्येत्यर्थे ठञित्यर्थः फलति। तदाह–प्रथमान्तादिति। `कालवाचिन' इति शेषः। अस्येत्यर्थ इति। अस्य ब्राहृचर्यस्येत्यर्थे इत्यर्थः। मासोऽस्येत्यनन्तरं `ब्राहृचर्यस्ये'ति शेषः। अस्मिन्पक्षे ब्राहृचर्यमेव प्रत्ययार्थत्वात्प्रधानम्। इदमर्थस्तु तद्विशेषणिति बोध्यम्। उपसंख्यानमिति। `अस्य ब्राहृचर्यमित्यर्थे ठञ' इति शेषः।

नित्यस्त्रीलिङ्गत्वात् भाषितपुंस्कत्वाऽभावात् `भस्याऽढे' इति पुंवत्त्वं नेति भावः। हरदत्तस्त्विति। `माहनाम्निक'मित्येव भाष्ये उदाह्मतत्वादिमुपेक्ष्यमिति भावः। चतुर्मासशब्दात्सप्तम्यन्ताण्ण्यो वाच्य इत्यर्थः। चतुर्ष्विति। चतुर्षु मासेषु अतीतेष्वित्यर्थः। \र्\नण् संज्ञायामिति। वार्तिकमिदम्। चतुर्मासब्दाद्भवार्थे अण् वाच्यः संज्ञायामित्यर्थः। चतुर्ष्विति। फाल्गुनीं पौर्णमासीमारभ्य चतुर्षु मासेष्वतीतेष्वित्यर्थः। आषाढीति। आषाढ्याः पौर्णमास्याश्चातुर्मासीति संज्ञेति भाव। नच `तत्र भवः' इत्यणैव सिद्धमिति वाच्यं, `द्विगोर्लुगनपत्ये' इति लुङ्निवृत्त्यर्थत्वात्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.