Table of Contents

<<5-1-94 —- 5-1-96>>

5-1-95 तस्य च दक्षिणा यज्ञाख्येभ्यः

प्रथमावृत्तिः

TBD.

काशिका

तस्य इति षष्ठीसमर्थेभ्यो यज्ञाख्येभ्यो दक्षिणा इत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति। अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी। वाजपेयिकी। राजसूयिकी। आख्याग्रहणम् अकालादपि यज्ञवाचिनो यथा सयातिति। इतरथा हि कालाधिकारादेकाहद्वादशाहप्रभृतय एव यज्ञा गृह्येरन्। प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणम् अलुकि 7-3-17 इति कालाधिकारे ऽपि द्वादशाहादिष्वस्ति प्राप्तिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1736 तस्य च दक्षिणा। तस्य दक्षिणेत्यर्थे यज्ञकालवृत्तिभ्यष्ठञ्स्यादित्यर्थः। द्वादसाहस्येति। द्वादशदिनसाध्यसुत्याकः क्रतुद्र्वादशाहः। तस्येत्यर्थः। कालोपसर्जनक्रतुवाचित्वादयमपि कालवृत्तिरिति भावः। `काला'दित्यधिकारसूत्रे हि यथाकथञ्चित्कालबोधकस्य ग्रहणमिति `तदस्य परिमाण'मिति सूत्रे भाष्ये स्पष्टम्। नन्वेवं सति अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकीत्यत्र ठञ्न स्यात्। अग्निष्टोमशब्दस्य कथञ्चिदपि कालवाचित्वाऽभावादित्यत आह– आक्याग्रहणादकालादपीति। अन्यथा `यज्ञेभ्य' इत्येव सिद्धे आख्याग्रहणवैयथ्र्यादिति भावः। वस्तुतस्तु `यज्ञेभ्य' इत्येवाक्तौ कालादित्यधिकाराद्द्वादशाहादिशब्देभ्य एव स्यान्नतु अग्निष्टोमादिशब्देभ्यः। आख्याग्रहणे तु अग्निष्टोमादिभ्यो द्वादशाहादिशब्देभ्यश्च सर्वेभ्यो यज्ञवाचिभ्य इति भाष्ये स्पष्टम्।

तत्त्वबोधिनी

1339 तस्य च दक्षिणा। षष्ठ\उfffद्न्तेभ्यो यज्ञाख्येभ्यो दक्षिणेत्यस्मिन्नर्थे ठञ् स्यात्। कालाधिकारादेवेह द्वादशाहादिभ्यः सिद्धे आख्याग्रहणं व्यर्थमित्याशङ्क्य परिहरति—आख्याग्रहणादिति।

Satishji's सूत्र-सूचिः

TBD.