Table of Contents

<<5-1-48 —- 5-1-50>>

5-1-49 भागाद् यच् च

प्रथमावृत्तिः

TBD.

काशिका

भागशदाद् यत् प्रत्ययो भवति, चकारात् ठन् च, तदस्मिन् वृद्ध्यायलाभशुल्कौपदा दीयते 5-1-47 इत्येतस्मिन्नर्थे। ठञो ऽपवादः। भागो। वृद्ध्यादिरस्मिन् दीयते भाग्यं, भागिकं शतम्। भाग्या, भागिका विंशतिः। भागशब्दो ऽपि रूपकार्धस्य वाचकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1692 भागाद्यच्च। तदस्मिन् वृद्ध्यादि दीयत इत्यर्थे भागशब्दात्प्रथमान्ताद्यत्प्रत्ययश्च स्यादित्यर्थः। चाट्ठनिति। `पूर्वसूत्रादनुकृष्यते' इति शेषः। भागशब्दोऽपि रूपकस्यार्ध इति। `वर्तते' इति शेषः।

तत्त्वबोधिनी

1308 रुपकस्येति। रूपकं–कार्षापणम्। रूढैति। तथा च भागवद्द्रव्यसापेक्षत्वेनाऽसामथ्र्यमिह नोद्भावनीयमिति भावः।

Satishji's सूत्र-सूचिः

TBD.