Table of Contents

<<5-1-46 —- 5-1-48>>

5-1-47 तदस्मिन् वृद्ध्यायलाभशुल्कौपदा दीयते

प्रथमावृत्तिः

TBD.

काशिका

तदिति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत् तत् प्रथमासमर्थं वृद्ध्यादि चेत् तद् दीयते। दीयते इत्येकवचनान्तं वृद्ध्यादिभिः प्रत्येकम् अभिसम्बध्यते। तत्र यदधमर्णेन उत्तमर्णाय मूलधनातिरिक्तं देयं तद् वृद्धिः। ग्रामादिषु स्वामिग्राह्यो भागः आयः। पटादीनाम् उपादानमूलादतिरिक्तं द्रव्यं लाभः। रक्षानिर्वेशो राजभागः शुल्कः। उत्कोचौपदा। पञ्च अस्मिन् वृद्धिर् वा आयो वा लाभो वा शुल्को वा उपदा वा दीयते पञ्चकः। सप्तकः। शत्यः, शतिकः। साहस्रः। चतुर्थ्यर्थ उपसङ्ख्यानम्। पञ्च अस्मै वृद्धिर् वा आयो वा लाभो वा उपदा वा दीयते पज्चको देवदत्तः। सिद्धं त्वधिकरणत्वेन विवक्षितत्वात्। सममब्राह्मणे दानम् इति यथा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1690 तदस्मिन्। वृद्धि, आय, लाभ, शुल्क, उपदा एषां द्वन्द्वात्प्रथमाबहुवचनम्। ननु तर्हि दीयत इति कथमेकवचनमित्यत आह–वृद्धिर्दीयत इत्यादि क्रेमेणेति। एवंच तदस्मिन्वृद्धिर्दीयते, तदस्मिन् आयो दीयते, तदस्मिन् लाभो दीयते, तदस्मिन् शुल्को दीयते, इत्यर्थेषु प्रतमान्ताद्यथाविहितं ठञादयः स्युरित्यर्थः। पञ्चक इति। `सङ्ख्यायाः' इति कन्। शतिकः। शत्य इति। शतमस्मिन्वृद्धिः, आयः, लाभः, शुल्कः, उपदा वा दीयते इति विग्रहः। `शताच्च ठन्यतौ'। साहरुआ इति। सहरुआमस्मिन्दीयते इत्यादि विग्रहः। `शतमानसहरुओ'त्यण्। रक्षानिर्वेश इति। रक्षा=प्रजापरिपालनम्, तदर्थे निर्वेशः=भृतिः रक्षानिर्वेशः। उत्कोच इति। `मह्रं किञ्चिद्दत्तं चेत्तव राजद्वारेऽनुरकूलो भवामी'त्यादि समयं कृत्वा यद्गृह्रते तदुत्कोच इत्युच्यत इत्यर्थः। इत्युपसंख्यातव्यमित्यर्थः। सममब्राआहृणे इति। एवंच सम्प्रदानस्यैवाधिकरणत्वविवक्षया इष्टसिद्धेरुपसह्ख्यानमिदं नादर्तव्यमिति भावः।

तत्त्वबोधिनी

1306 तदस्मिन्। प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति। शुल्कग्रहणं प्रपञ्चार्थं, तस्याप्यायविशेषत्वात्। तथा च `ठगायस्थानेभ्यः'इति ठग्भवति, शौल्कशालिक इथि हरदत्तः। उपदा दीयत इति। जसः सस्य रुत्वे यत्वे च यलोपः। साहरुआ इति। `शतमाने'त्यादिनाऽण्। रक्षानिर्वेश इति। निर्वेशो —भृतिः। रक्षानिमित्तको निर्वेशो रक्षानिर्वेशः। संबन्धषष्ठ\उfffदा समासः। सममित्यादि। एवं च सम्प्रदानस्यैवाऽधिकरणत्वविवक्षयेष्टसिद्धौ उपसङ्ख्यानं नादर्तव्यमिति भावः।

Satishji's सूत्र-सूचिः

TBD.