TBD.
तदिति द्वितीयासमर्थाद् धरत्यादिष्वर्थेषु यथाविहितं प्रत्ययो भवति। प्रकृतिविशेषणं भाराद् वंशादिभ्यः इति। वंशादिभ्यः परो यो भारशब्दः तदन्तात् प्रातिपदिकातिति। वंशभारं हरति वहति आवहति वा वांशभारिकः। कौटजभारिकः। बाल्वजभारिकः। भारातिति किम्? वंशं हरति। वंशादिभ्यः इति किम्? व्रीहिभारं हरति। अपरा वृत्तिः भाराद् वंशादिभ्यः इति, भारभूतेभ्यो वंशादिभ्यः इत्यर्थः। भारशब्दो ऽर्थद्वारेण वंशादीनां विशेषणम्। भारभूतान् वंशान् हरति वांशिकः। कौटजिकः। बाल्वजिकः। भारातिति किम्? वंशं हरति। वंशादिभ्याः इति किम्? भारभूतान् व्रीहीन् वहति। सूत्रार्थद्वयम् अपि च एतदाचार्येण शिष्याः प्रतिपादिताः। तदुभयम् अपि ग्राह्यम्। हरति देशान्तरं प्रापयति चोरयति वा। वहत्युत्क्षिप्य धारयति इत्यर्थः। आवहति उत्पादयति इत्यर्थः। वंश। कुटज। बल्वज। मूल। अक्ष। स्थूणा। अश्मन्। अश्व। इक्षु। खट्वा। वंशादिः।
TBD.
–
1693 तद्धरति वहति। वंशाद्भारादिभ्य इत्येकवचनबहुवचनान्तयोः सामानाधिकरण्याऽसम्भावद्वैयधिकरण्येनान्वयः। स च व्युक्रमः, व्याख्यानात्। तदाह– वंशादिभ्यः पर इति। `द्वितीयान्ता'दित्यनन्तरं हरति वहति आवहतीत्यर्थे यथाविहितं प्रत्ययः स्या'दिति शेषः। हरणं कथञ्चिद्देशान्तरप्रापणं, चौर्यं वा। शकटादिना प्रापणं वहनम्। स्वसमीपं प्रापणमावहनम्, उत्पादनं वा। वांशभारिक इति। `आर्हा'दिति ठक्। अत्र पञ्चम्यन्तयोव्र्युक्रमेण वैयधिकरण्येन चान्वये प्रमाणाऽभावादाह– भाराद्वंशादिभ्य इत्यस्य व्याख्यान्तरमिति। `भारात्परेभ्यो वंशादिभ्य' इत्यर्थभ्रमव्यावृत्तये व्याख्यान्तरं विशदयति–भारभूतेभ्यो वंशादिभ्य इतीति। वंशादिशब्दानां भारभूतत्वं तु भारबूतवंशादिवृत्तेर्बोध्यम्। अस्मिन्व्याख्याने भारादित्येकवचनमार्षम्। यद्वा प्रत्येकान्वयाभिप्रायम्। वस्तुतो भारबूता ये वंशादयस्तद्वाचिभ्य इति यावत्।
1309 भारभूतेभ्यो वंशादिभ्य इथि। ननु वंशादयः शब्दास्ते कथं भारभूता इत्यत आह— भारभूतानिति। भारशब्दोऽर्थद्वारा वंशादीनां विशेषणमिति भावः। `भारेभ्यः'इति वक्तव्येप्रत्येकं संबन्धविवक्षाया सूत्रे `भारात्'इति निर्देशः।
TBD.