Table of Contents

<<5-1-47 —- 5-1-49>>

5-1-48 पूरणार्धाट् ठन्

प्रथमावृत्तिः

TBD.

काशिका

पूरणवाचिनः शब्दातर्धशब्दाच् च ठन् प्रत्ययो भवति तदस्मिन् वृद्ध्याय. लाभशुल्कौपदा दीयते 5-1-47 इत्येतस्मिन्नर्थे। यथायथं ठक्टिठनोरपवादः। द्वितीयो वृद्ध्यादिरस्मिन् दीयते द्वितीयिकः। तृतीयिकः। पञ्चमिकः। सप्तमिकः। अर्धिकः। अर्धशब्दो रुपकार्धस्य रूढिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1691 पूरणार्धाट्ठन्। तदस्मिन् वृद्ध्यादि दीयत इत्यर्थे पूरणप्रत्ययान्तादर्धशब्दाच्च प्रथमान्ताट्ठन् स्यादित्यर्थः। द्वितीयिक तृतीयिकः इति। `आर्हा'दिति ठकोऽपवादष्ठन्। अर्धिक इति। अर्धमस्मिन् वृद्ध्यादि दीयते इत्यर्थः। `अर्धाच्चेति वक्तव्य'मिति टिठनोऽपवादष्ठन्। टिठनि सति तु स्त्रियां ङीप् स्यात्। अर्धिकेति तु टाबेवेष्यते। रूपकस्येति। रूप्यस्य कार्षापणस्येत्यर्थः। रूढ इति। अन्यथा अर्धशब्दस्य रूप्यकसापेक्षत्वादसामथ्र्यं स्यादिति भावः। रूप्यकस्यार्धे रूढ इत्यत्र प्रमाणं मृग्यम्। असामथ्र्यं तु नित्यसापेक्षत्वाद्वारयितुं शक्यमित्याहुः।

तत्त्वबोधिनी

1307 पूरणार्धाट्ठन्। पूर्यतेऽनेनेति पूरणोऽर्थस्तद्वाचिनोऽर्धशब्दाच्च ठन्स्यात्। अर्धिक इति। `अर्धाच्चेति वक्तव्यमिति टिठन्प्राप्तः, सति च तस्मिन्स्त्रियां ङीप्स्यात्। इष्यते तु टाप्।

Satishji's सूत्र-सूचिः

TBD.