Table of Contents

<<5-1-32 —- 5-1-34>>

5-1-33 खार्या ईकन्

प्रथमावृत्तिः

TBD.

काशिका

अध्यर्धपूर्वद् द्विगोः इत्येव अध्यर्धपूर्वात् प्रातिपदिकाद् द्विगोश्च खारीशब्दानतातार्हीयेष्वर्थेषु ईकन् प्रत्ययो भवति। अध्यर्धखारीकम्। द्विखारीकम्। केवलायाश्च इति वक्तव्यम्। खारीकम्। काकिण्याश्च उपसङ्ख्यानम्। अध्यर्धकाकिणीकम्। द्विकाकिणीकम्। त्रिकाकिणीकम्। केवलायाश्च। काकिणीकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

खार्या ईकन्। `अध्यद्र्धपूर्वा'दिति द्विगोरिति चानुवर्तत इत्यभिप्रेत्योदाहरति– अध्यर्थखारीकं, द्विखारीकमिति। `तदस्य परिमाण'मिति ठञि तस्य च लुकि प्राप्ते ईकन्।

तत्त्वबोधिनी

1294 खार्याः। `तदस्य परिमाण'मिति ठञि प्राप्ते तस्य च लुकि प्राप्ते ईकन्विधीयते। कन्विधौ `केऽणः'इति ह्यस्वः स्यात्। इकन्विधावपि `यस्येति चे'ति लोपादिष्टं न सिध्यतीति भावः।

Satishji's सूत्र-सूचिः

TBD.