Table of Contents

<<5-1-34 —- 5-1-36>>

5-1-35 शाणाद् वा

प्रथमावृत्तिः

TBD.

काशिका

अध्यर्धपूर्वात् द्विगोः इत्येव। शाणशब्दादध्यर्धपूर्वाद् द्विगोरार्हीयेष्वर्थेषु वा यत् प्रत्ययो भवति। ठञो ऽपवादः। पक्षे सो ऽपि भवति, तस्य च लुक्। अध्यर्धशाण्यम्, अध्यर्धशाणम्। द्विशाण्यम्, द्विशाणम्। त्रिशाण्यम्, त्रिशाणम्। शताच् च इति वक्तव्यम्। अध्यर्धशत्यम्, ध्यर्धशतम्। द्विशत्यम्, द्विशतम्। त्रिशत्यम्, त्रिशतम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1677 शाणाद्वा। पक्षे। ठञिति। आर्गादिति ठग्विधौ परिमाणपर्युदासाट्ठञिचि भावः। तस्य लुगिति। ठञ इति भावः। अत्र अध्यर्थपूर्वादिति द्विगोरिति चानुवर्तत इत्यभिप्रेत्य अध्यर्थपूर्वादुदाहरति–अध्यर्धशाण्यम् अध्यर्धशाणामिति। यति ठञो लुकि च रूपम्।

तत्त्वबोधिनी

1296 पक्षे ठञिति। यद्यपि शाण उन्मानम्, तथापि `आर्हा'दिति सूत्रे परिमाणग्रहणेन परिमीयते परिच्छिद्यतेऽनेनेति योगवृत्त्या परिच्छेदकमात्रं गृह्रते'इति वादिनां मते अस्यापि पर्युदासाट्ठगभावे ठञिति भावः। मुख्यमते तु ठगेव बोध्यः। शाणाद्वेति सूत्रे `शताच्चेति वक्तव्ये'। पूर्वेण नित्यं प्राप्ते विकल्पार्थम्। एवं च पूर्वसूत्रे शतग्रहणमकृत्वा शतशाणाभ्यां वेत्येव वक्तुं युक्तमित्याहुः। अध्यर्धशत्यम्। अध्यर्धशतम्। पञ्चशत्यम्। पञ्चशतम्। यदभावे सङ्ख्यालक्षणस्य कनो लुक्। `शताच्च ठन्यतौ'इति तु न प्रवर्तते, तत्राऽसमासग्रहणस्यानुवर्तनात्।

Satishji's सूत्र-सूचिः

TBD.