Table of Contents

<<5-1-26 —- 5-1-28>>

5-1-27 शतमानविंशतिकसहस्रवसनादण्

प्रथमावृत्तिः

TBD.

काशिका

शतमानादिभ्यः शब्देभ्यः अण् प्रत्ययो भवति आर्हीयेष्वर्थेषु। ठक्ठञोरपवादः। शतमानेन क्रीतं शातमानं शतम्। वैशतिकम्। साहस्रम्। वासनम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1669 शतमान। शातमानमिति। अत्र ठञ् प्राप्तः। वैंशतिकमिति। विंशत्या क्रीतं विंशतिकम्। संज्ञाशब्दोऽयम्। `विंशतितिं?रशद्भ्या'मिति योगविभागात्कन्। विंशतिकेन क्रीतिमिति विग्रहः। तत्र परिमाणविशेषस्य संज्ञा चेट्ठञ् प्राप्तः, अन्यस्य संज्ञा चेट्ठक् प्राप्तः। साहरुआमिति। सहरुओण क्रीतमिति विग्रहः। `सङ्ख्याया अतिशदन्तायाः' इति कन् प्राप्तः। वासनमिति। वसनेन क्रीतिमिति विग्रहः। अत्र ठक् प्राप्तः।

तत्त्वबोधिनी

1289 ठञ्?ठक्कनामिति। शतमानं परिमाणं, ततष्ठञ् प्राप्तः। विंशत्या क्रीतं विंशतिकम्। संज्ञाशब्दोऽयम्। असंज्ञायां हि `विंशति तिं?रशभ्द्या'मिति ड्वुन् स्यात्। संज्ञा च यदि परिमाणस्य, तदा ठञ् प्राप्तः। अर्थान्तरस्य चेत्तर्हि ठक् प्राप्तः। वसनशब्दात्तु ठगेव। सहरुआशब्दस्य सङ्ख्यावाचित्वात्ततः `सङ्ख्याया अतिशदन्तायाः'इति कन्प्राप्त इति विवेकः।

Satishji's सूत्र-सूचिः

TBD.