TBD.
अध्यर्धपूर्वाद् द्विगोश्च कार्षापणसहस्रान्तातुत्तरस्य आर्हीयप्रत्ययस्य विभाषा लुग् भवति। पूर्वेण लुकि नित्य प्राप्ते विकल्प्यते। अध्यर्धकार्षापणम्, अध्यर्धकार्शापणिकम्। द्विकार्षापणम्, द्विकार्षापणिकम्। औपसङ्ख्यानिकस्य टिठनो लुक्। अलुक्पक्षे च प्रतिरादेशो विकल्पितः। अध्यर्धप्रतिकम्। द्विप्रतिकम्। त्रिप्रतिकम्। सहस्रात् अध्यर्धसहस्रम्, अध्यर्धसाहस्रम्। द्विसहस्रम्, द्विसाहस्रम्। अलुक्पक्षे सङ्ख्यायाः संवत्सरसङ्ख्यस्य च इत्युत्तरपदवृद्धिः। सौवर्णशतमानयोरुपसङ्ख्यानम्। अध्यर्धसुवर्णम्, अध्यर्धसौवर्णिकम्। द्विसुवर्णम्, द्विसौवर्णिकम्। अध्यर्धशतमानम्, अध्यर्धशातमानम्। द्विशतमानम्, द्विशातमानम्। परिमाणान्तस्य इत्युत्तरपदवृद्धिः।
TBD.
–
1671 विभाषा। लुग्वेति। `आर्हीयस्ये'ति शेषः। औपसंख्यानिकस्येति।`कार्षापणाट्ठिन् वक्तव्यः' इत्युक्तस्येत्यर्थः। अध्यर्धप्रतिकमिति। प्रत्यादेशस्य टिठन्संनियोगशिष्टत्वात्प्रत्यादेशपक्षे टिठनो न लुगिति भावः। अध्यर्धसहरुआमिति। `शतमाने'ति विहितस्याऽणो लुक्। लुगभावे तु `सङ्ख्यायाः संवत्सरसङ्ख्यस्य चे'त्युत्तरपदवृद्धिः।
1291 विभाषा। टिठनो लुगिति। प्रत्यादेशपक्षे तु लङ् न भवति, प्रत्यादेशस्य प्रत्ययसंनियोगशिष्टत्वादिति बोध्यम्। अध्यर्धसहरुआमिति। `शतमानविंशतिके\
TBD.