TBD.
तेन इति तृतीयासमर्थात् तुल्यम् इत्येतस्मिन्नर्थे वतिः प्रत्ययो भवति, यत् तुल्यं क्रिया चेत् सा भवति। ब्राह्मणेन तुल्यं वर्तते ब्राह्मणवत्। राजवत्। क्रियाग्रहणम् किम्? गुणतुल्ये मा भूत्। पुत्रेण तुल्यः स्थूलः। पुत्रेण तुल्यो गोमान्।
TBD.
1154 ब्राह्मणेन तुल्यं ब्राह्मणवत् अधीते. क्रिया चेदिति किम्? गुणतुल्ये मा भूत्. पुत्रेण तुल्यः स्थूलः..
1755 अथ बावकर्मार्था निरूप्यन्ते। तेन तुल्यं। तुल्यमिति क्रियेत्यस्य विशेषणम्। सामान्याभिप्रायं नपुंसकम्। तृतीयान्तात्तुल्यमित्यर्थे वतिप्रत्ययः स्यात्। यत्तुल्यं सा चेत् क्रियेत्यर्थः। तुल्या क्रियेत्यर्थे वतिः स्यादिति यावत्। ब्राआहृणवदधीते इति। अत्र `ब्राआहृणव'दित्युदाहरणम्। `ब्राआहृणेन तुल्यमधीते' इति विग्रहवाक्यम्। अत्र ब्राआहृणशब्देन ब्राआहृणकर्तृकाध्ययनं लक्ष्यते। ब्राआहृणकर्तृकाध्ययनतुल्यं क्षत्रियकर्तृकाध्ययनमिति बोधः। गुणतुल्ये इति। द्रव्यतुल्येऽपीति बोध्यम्। तेन `चैत्रेण तुल्यो धनी देवदत्तः' इत्यादौ न भवति। `अयमेवं न तद्व'दित्यादौ वतेः साधुत्वार्थम् आहेति क्रियापदं प्रयुञ्जते वृद्धाः।
1352 तेन तुल्यं क्रिया चेद् बतिः। `तुल्य'मिति सामान्ये नपुंसकम्। तृतीयान्तात्तुल्यमित्यर्थे वतिः स्याद्यत्तुल्यं क्रिया चेत्सा। ब्राआहृणेन तुल्यमिति। नन्वत्र `ब्राआहृणो यथा वर्तते तथा क्षत्रियादिकर्तृकाध्ययनं वर्तते' इति वाक्यार्थोऽसङ्गत इति चेत्। अत्राहुः—-ब्राआहृणशब्दस्यत्कर्तृकाध्ययने लक्षणया वर्तते। `ब्राआहृणकर्तृकाध्ययनतुल्याध्ययनं वाक्यार्थः'इति न कोऽपि दोषः। गुणतुल्ये इति। उपलक्षणमिदम्। अक्रियातुल्य इत्यर्थः। एवं च `ब्राआहृणेन सदृशः क्षत्त्रियः'इत्यर्थे `ब्राआहृणवत् क्षत्त्रियः'इति प्रयोगोऽसाधुरेव [इति]। अतएव `पर्वतो वह्निमान्महानवसदि'ति वाक्ये `महानससदृशः पर्वतः'इत्यर्थे वतेरसाधुत्वं मत्वा तस्य वतेः साधुत्वरक्षमार्थं `पर्वतो वह्निमान्भवितुमर्हती'त्यादि क्रियापदं प्रयुज्यते वृद्धाः।
TBD.