Table of Contents

<<5-1-16 —- 5-1-18>>

5-1-17 परिखाया ठञ्

प्रथमावृत्तिः

TBD.

काशिका

परिखाशब्दात् ढञ् प्रत्ययो भवति तदस्य तदस्मिन् स्यात् 5-1-16 इत्येतस्मिन्नर्थे। छस्य अपवादः। पारिखेयी भूमिः। छयतोः पूर्णो ऽवधिः। इतः परमन्यः प्रत्ययो विधीयते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1778 परिखाया ढञ्। `पूर्वसूत्रविषये' इति शेषः। पारिखेयी भूमिरिति। परिखा अस्या अस्ति, अस्यामस्तीति वा विग्रहः। परिखायोग्येत्यर्थः। छयतोः पूर्णोऽवधिरिति। `प्राग्वतेष्ठ'ञित्यारभ्य `द्वित्रिपूर्वादण्चे'त्यन्तै सूत्रैः प्रत्ययविशेषेष्वनुक्रान्तेषु `तेनक्रीत'मिति पठितम्। ततश्च प्राक्क्रीतादित्युक्तेस्तेष्वपि सूत्रेषु छयतोरनुवृत्तिः कुतो नेति न शङ्क्यं, प्रत्ययविशेषाणां श्रवणे तयोरनुवृत्त्यसंभवादिति भावः।

बालमनोरमा

याम् छयतोरवधिः*


तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.