Table of Contents

<<5-1-13 —- 5-1-15>>

5-1-14 ऋषभौपानहोर् ञ्यः

प्रथमावृत्तिः

TBD.

काशिका

ऋषभ उपानः इत्य् रथाङ्गं औपधेयम् अपि एताभ्यां ञ्यः प्रत्ययो भवति तदर्थं विकृटेः प्रकृतौ 5-1-12 इत्येतस्मिन् विषये। छस्य अपवादः। आर्षभ्यो वत्सः। औपानह्यो मुञ्जः। चर्मण्यपि प्रकृतित्वेन विवक्षिते पूर्वविप्रतिषेधादयम् एव इष्यते। औपानह्यं चर्म।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1654 ऋषभोपानहो। ऋषभ उपानह् अनयोः समाहारद्वन्द्वात्पञ्चमी। ऋषभशब्दादुपानह्?शब्दाच्च तादथ्र्यचतुथ्र्यन्तात्प्रकृतौ वाच्यायां ञ्यप्रत्ययः स्यादित्यर्थः। आर्षभ्य इति। ऋषभाय अयमिति विग्रहः। ऋषभार्थ इत्यर्थः। यो वत्स ऋषभावस्थाप्राप्त्यर्थं पोष्यते स एवमुच्यते। औपानह्रो मुञ्ज इति। उपानहे अयमिति विग्रहः। उपानदर्थो मुञ्ज इत्यर्थः। क्लचिद्देशे मुञ्जतृणैरुपानत् क्रियते।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.