Table of Contents

<<5-1-13 —- 5-1-15>>

5-1-14 ऋषभौपानहोर् ञ्यः

प्रथमावृत्तिः

TBD.

काशिका

ऋषभ उपानः इत्य् रथाङ्गं औपधेयम् अपि एताभ्यां ञ्यः प्रत्ययो भवति तदर्थं विकृटेः प्रकृतौ 5-1-12 इत्येतस्मिन् विषये। छस्य अपवादः। आर्षभ्यो वत्सः। औपानह्यो मुञ्जः। चर्मण्यपि प्रकृतित्वेन विवक्षिते पूर्वविप्रतिषेधादयम् एव इष्यते। औपानह्यं चर्म।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1654 ऋषभोपानहो। ऋषभ उपानह् अनयोः समाहारद्वन्द्वात्पञ्चमी। ऋषभशब्दादुपानह्?शब्दाच्च तादथ्र्यचतुथ्र्यन्तात्प्रकृतौ वाच्यायां ञ्यप्रत्ययः स्यादित्यर्थः। आर्षभ्य इति। ऋषभाय अयमिति विग्रहः। ऋषभार्थ इत्यर्थः। यो वत्स ऋषभावस्थाप्राप्त्यर्थं पोष्यते स एवमुच्यते। औपानह्रो मुञ्ज इति। उपानहे अयमिति विग्रहः। उपानदर्थो मुञ्ज इत्यर्थः। क्लचिद्देशे मुञ्जतृणैरुपानत् क्रियते।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.