Table of Contents

<<5-1-11 —- 5-1-13>>

5-1-12 तदर्थं विकृतेः प्रकृतौ

प्रथमावृत्तिः

TBD.

काशिका

प्रकृतिः उपादानकारणं, तस्य एव उत्तरम् अवस्थान्तरं विकृतिः। विकृतिवाचिनः प्रातिपादिकात् प्रकृतावभिधेयायां यथाविहितं प्रत्ययो भवति। तदर्थम् इति प्रत्ययार्थविशेषणम्। तदिति सर्वनाम्ना विकृतिः परामृश्यते। विकृत्यर्थायां प्रकृतौ प्रत्ययः। तदर्थग्रहणेन प्रकृतेरनन्यार्थता आख्यायते। न प्रकृतिविकारसम्भवम् आत्रे प्रत्ययः, किं तर्हि, प्रकृतेरनन्यार्थत्वे विवक्षिते। प्रत्ययार्थस्य च तदर्थत्वे सति सामर्थ्याल् लभ्या चतुर्थी समर्थविभक्तिः। केचित् तु तस्मै हितम् 5-1-5 इत्यनुवर्तयन्ति। अङ्गारेभ्यो हितानि एतानि काष्ठानि अङ्गारीयाणि काष्ठानि। प्राकारीया इष्टकाः। शङ्कव्यं दारु। पिचव्यः कार्पासः। तदर्थम् इति किम्? यवानां धानाः। धानानां सक्तवः। प्रकृत्यन्तरनिवृत्तिरत्र विवक्षिता न तादर्थ्यम् धानानां सक्तवः, न लाजानाम् इति। विकृतेः इति किम्? उदकार्थः कूपः। विकृतिग्रहणे ऽक्रियमाणे या काचित् प्रक्र्तिर् गृह्यते, न उपादानकारणम् एव। भवति च कूप उदकस्य प्रकृतिः, तत्र उत्पादनात्। न तु उदकं तस्यः विकृतिः, अत्यन्तभेदात् प्रकृतौ इति किम्? अस्यर्था कोशी। असिरयसो विकृतिर् भवति, न तु कोशी तस्य प्रकृतिर् भवति। द्वयोरपि प्रकृतिविकृत्योर् ग्रहणे विवक्षितः प्रकृतिविकारभावो लभ्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1652 तदर्थं विकृतेः प्रकृतौ। तदर्थमिति `सामान्ये नपुंसकम्'। तस्मै इदं तदर्थम्। तच्छब्देन विकृतिः परामृश्यते। सप्तम्यर्थे प्रथमा। विकृत्यर्थायां प्रकृताविति लभ्यते। एवं च तच्छब्देन चतुथ्र्यन्तेन विकृतिरेव प्रथमं निर्दिश्यते। तथा च चतुथ्र्यन्ताद्विकृतिवाचकादिति लभ्यते। तदाह–विकृतिवाचकादित्यादिना। प्रत्ययः स्यादिति। `यथाविहित'मिति शेषः। अङ्गारेब्य एतानीति। अङ्गारार्थानीत्यर्थः। अर्थेन नित्यसमासविधानादस्वपद विग्रहः। अत्र काण्ठानि प्रकृतिद्रव्याणि। अङ्गारा विकृतयः। तद्वाचकादङ्गारशब्दाच्छप्रत्यये `अङ्गारीयाणी'ति रूपम्। प्राकारीया इष्टका इतदि। प्राकारेभ्य इमा इति विग्रहः। प्राकारार्था इत्यर्थः। शङ्कव्यमिति। शङ्कवे इदमिति विग्रहः। शङ्क्वर्थमित्यर्थः। `उगवादिभ्यः' इति यत्।

तत्त्वबोधिनी

1276 तदर्थ विकृतेः। `तस्मै हित'मित्यतस्तस्मा इत्यनुवर्तते। तदाह— चतुथ्र्यन्तादिति। `तदर्थ'मिति `सामान्ये नपुंसकं'। व्यत्ययेन सप्तमीस्थाने प्रथमेत्याशयेनाह–तदर्थायामिति। विकृत्यर्थायामित्यर्थः। `त'दिति सर्वनाम्ना हि विकृतिः परमृश्यते। एवं च विकृतिरेव प्रथमानिर्दिष्टेति `समर्थाना प्रथमा'दित्यधिकारोऽप्यत्र निर्बाध व। शङ्कव्यमिति। `उगवादिभ्यः' इति यत्।

Satishji's सूत्र-सूचिः

TBD.