Table of Contents

<<5-1-12 —- 5-1-14>>

5-1-13 छदिरुपधिबलेर् ढञ्

प्रथमावृत्तिः

TBD.

काशिका

छदिरादिभ्यः शब्देभ्यः ढञ् प्रत्ययो भवति तदर्थं विकृतेः प्रकृतौ 5-1-12 इत्येतस्मिन् विषये। छस्य अपवादः। छादिषेयाणि तृणानि। औपधेयं दारु। बालेयास्तण्डुलाः। उपधिशब्दात् स्वार्थे प्रत्ययः। उपधीयते इति उपधिः रथाङ्गं औपधेयम् अपि तदेव दारु।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1653 छदिरुपधिबलेर्ढञ्। छदिष्, उपधि, बलि-एषां समाहारद्वन्द्वे सौत्रं पुस्त्वम्। एभ्यस्तादथ्र्यचतुथ्र्यन्तेभ्यः प्रकृतौ वाच्यायां ढञित्यर्थः। छादिषेयाणीति। छदिस्तृणपटलः। तस्मै इमानीति विग्रहः। छदिरर्थानीत्यर्थः। ढञि एयादेशे षात्परत्वाण्णत्वम्। बालेयास्तण्डुला इति। बलये इमे इति विग्रहः। बल्यर्था इत्यर्थः। `करोपहारयोः पुंसि बलि'रित्यमरः। `भागधेयः करो वलि'रिति च। \र्\नुपधिशब्दादिति। वार्तिकमिदम्। उपधीयते इति। अक्षदण्डाग्रे उपधीयते=प्रोतं क्रियते इत्युपधिः। `उपसर्गे घोः किः' इति धाञः किप्रत्ययः। `आता लोप इटि चे'त्याल्लोपः। उपधी रथाङ्गमिति। तथा भाष्यादिति भावः।

तत्त्वबोधिनी

1277 छदिरुपधि। समाहारद्वन्द्वे सौत्रं पुंस्त्वम्। छस्यापवादोऽयम्। छादिषेयाणीति। छाद्यतेऽनेनेति छदिः। `अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः'। `इस्मन्त्रन्क्विषु च'इति ह्यस्वत्वम्। यदा तु चर्मविकारश्छदिस्तदा परत्वात् `चर्मणोऽ'ञित्यञ् प्राप्नोति। पूर्वविप्रतिषेधेन तु ढञेवेष्यते। छादिषेयं चर्म। आह च `यञ्ञ्यावञः पूर्वविप्रतिषिद्धम्' `ढञ् चे'ति। यत उदाहरणं स्त[स]नङ्गव्यं। स्त [स]नङ्गुश्चर्मविकारस्तदर्थं चर्म। `उगवादिभ्यः'इति यत्। ञ्यस्योदाहरणमौपानह्रमिति अनुपदं वक्ष्यति। बालेया इति। `करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्तरिया'मित्यमरः।\र्\नुपधिशब्दात्स्वार्थे इष्यते। उपधिरिति। `उपसर्गे घोः कि'रिति धाञःकिः।`आतो लोप इति चे'त्यलोपः विप्रतिषेधेनेति। `यञ्ञ्यावञ'इत्यादिवार्तिकेनेत्यर्थः। ननु ढञ्विधौ छदिरित्यस्य, ञ्यविधौ उपानहश्च विशिष्य ग्रहणेन `प्रतिपदोक्तं बलीयः'इति सिद्धे किमनेन पूर्वविप्रतिषेधेन?। अत्राहुः–`निरवकाशत्वे सत्येव प्रतिपदविधित्वं बलीयस्त्वे प्रयोजकं', न तु सावकाशत्वे'इत्यनेन मुनिवचनेनाऽनुमीयते। तेन `स्वम्पि तडाकानि'इत्येव युक्तं, परत्वान्नुम्प्वृत्तेः। प्रतिपदोक्तत्वाद्दीर्घमाश्रित्य `स्वाम्पि तडाकानी'ति मतं दुर्बलम्। `अप्तृन्' इति दीर्घस्य `आपस्तिष्ठन्ती' प्रतिपदोक्तत्वस्याऽबलीयस्त्वादिति।

Satishji's सूत्र-सूचिः

TBD.