Table of Contents

<<5-1-121 —- 5-1-123>>

5-1-122 पृथ्वादिभ्य इमनिज् वा

प्रथमावृत्तिः

TBD.

काशिका

पृथु इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः इमनिच् प्रत्ययो भवति वा तस्य भावः इत्येतस्मिन्नर्थे। वावचनम् अणादेः समावेशार्थम्। पृथोर् भावः प्रथिमा, पार्थवम्। म्रदिमा, मार्दवम्। तुरिष्ठैमैइयःसु 6-4-154), टेः (*6,4.155 इति टिलोपः। र ऋतो हलदेर् लघोः 6-4-161 इति रेफादेशः। त्वतलौ सर्वत्र भवत एव। पृथुत्वम्, पृथुता। मृदुत्वम्, मुदुता। पृथु। मृदु। महत्। पटु। तनु। ल्घु। बहु। साधु। वेणु। आशु। बहुल। गुरु। दण्ड। ऊरु। खण्ड। चण्ड। बाल। अकिंचन। होड। पाक। वत्स। मन्द। स्वादु। ह्रस्व। दीर्घ। प्रिय। वृष। ऋजु। क्षिप्र। क्षुप्र। क्षुद्र। पृथ्वादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1158 वावचनमणादिसमावेशार्थम्..

बालमनोरमा

1761 पृथ्वादिभ्य। तस्य भाव इत्यनुवर्तते। पृथ्वादिभ्यः षष्ठ\उfffद्न्तेभ्यो भावे इमनिज्वा स्यादित्यर्थः। ननु वाग्रहणं व्यर्थं, `समर्थानां प्रथमाद्रे'ति महाविभाषयैव वाक्यस्य सिद्धत्वात्। नच इमनिजभावेत्वतल्प्रत्ययर्थां वाग्रहणमिति वाच्यम्, `आ च त्वा'दित्येव तत्समावेशसिद्धेरित्यत आह–वपावचनमणादिसभावेशार्थमिति। पृथुमृदुप्रभृतिषु `इगन्ताच्च लघुपूर्वा'दित्यणः, चण्डखण्डादिषु गुणवचनलक्षणष्यञः, बालवत्सादिषु वयोवचनलक्षणस्य अञश्च औत्सर्गिकस्य समावेशार्थमित्यर्थः। अन्यथा महाविबाषावशादपवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते इति `पारे मध्ये षष्ठ\उfffदा वे'ति सूत्रभाष्ये सिद्धान्तितत्वादिमनिच्त्वतलाभभावे तेषां प्रवृत्तिर्न स्यादिति भावः।

तत्त्वबोधिनी

1358 पृथ्वादिभ्यः। अणादीति। इगन्तलघुपूर्वेषु पृथुमृदुप्रभृतिष्वणः समावेशः। चण्डखण्डादिषु गुणवचनेषु ष्यञः। बालत्सादिषु वयोवचनलक्षणस्याऽञ इति बोध्यम्। त्वतलौ तु पूर्वसूत्रेणैव लब्धौ।

Satishji's सूत्र-सूचिः

TBD.