Table of Contents

<<5-1-122 —- 5-1-124>>

5-1-123 वर्णदृढाऽदिभ्यः ष्यञ् च

प्रथमावृत्तिः

TBD.

काशिका

वर्णविशेषवाचिभ्यः प्रातिपदिकेभ्यो दृढाऽदिभ्यश्च ष्यञ् प्रत्ययो भवति, चकारातिमनिच् च, तस्य भावः इत्येतस्मिन् विषये। शुक्लस्य भावः शौक्ल्यम्, शुक्लिमा, शुक्लत्वम्, शुक्लता। कार्ष्ण्यम्, कृष्णिमा, कृष्णत्वम्, कृष्णता। दृढादिभ्यः दार्ढ्यम्, द्रढिमा, दृढत्वम्, दृढता। षकारो ङीषर्थः। औचिती। याथाकामी। दृढ। परिवृढ। भृश। कृश। चक्र। आम्र। लवण। ताम्र। अम्ल। शीत। उष्ण। जड। बधिर। पण्डित। मधुर। मूर्ख। मूक। वेर्यातलाभमतिमनः शारदानाम्। समो मतिमनसोः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1162 चादिमनिच्. शौक्ल्यम्. शुक्लिमा. दार्ढ्यम्. द्रढिमा..

बालमनोरमा

1764 वर्णदृढादिभ्यः। षष्ठ\उfffद्न्तेभ्यो वर्णवाचिभ्यो दृढादिभ्यश्च भावे ष्यञ्च स्यादित्यर्थः। गुणवचनत्वादेव ष्यञि सिद्धे इमनिच्समुच्चयार्थं वचनम्। मृदुं भृशं चैव कृशं च दृढमेव च। परिपूर्वं वृढं चैव षडेतान्रविधौ स्मरेत्' इति वार्तिकमर्थतः सङ्गृह्णाति–पृथुमृदुभृशेत्यादि। तेन कृतयतीत्यादाविष्ठवत्त्वेऽपि रभावो न। द्रढिमेति। दृढशब्दादिमनिचि ऋकारस्य रः। भ्रशिमा क्रशिमा द्रढिमा परिब्राढिमा। ननु वर्णदृढादीनां ष्यञन्तानां लोकतो नपुंसकत्वात्ष्यञः षित्त्वस्य किं प्रयोजनमित्यत आह–षो ङीषर्थ इति। औचितीति। उचितशब्दाद्ब्राआहृणादित्वात्ष्यञि लोकात्स्त्रीत्वम्। शित्त्वान्ङीषि `हलस्तद्धितस्ये'ति यलोपः। उचितस्तु न दृढादिः, तद्गणे अदर्शनात्, इनिच्प्रसङ्गाच्च। अस्यैव ष्यञ उत्तरसूत्रे अनुवृत्तेरिहैव तस्य षित्त्वप्रयोजनकथनमिति बोध्यम्। याथाकामीति। काममनतिक्रम्य यथाकामम्। ततः स्वार्थे चतुर्वर्णादित्वात्ष्यञि लोकात्स्त्रीत्वे षित्त्वान्ङीष्।

तत्त्वबोधिनी

1360 वर्णदृढदिभ्यः। गुणवचनत्वादेव सिद्धे इमनिजर्थं वचनम्। `पृथुमृदुभृसे'ति परिगणनादिह रभावो न भवति—-कृतमाचष्टे कृतयति। णाविष्ठवद्भावः। औचितीति। ब्राआहृणादेराकृतिगणत्वात् ष्यञ्। `हलसतद्धितस्ये'ति यलोपः। एवं याथाकामी। दृढ, वृढ, परिवृढ. भृश, कृश, इत्यादि। अत्र द्वे गणसूत्रे— `वेर्यातलाभमतिमनःशारदानाम्'। विशब्दादुत्तरे ये यातादयः पञ्च तदन्तानां समासानामनन्तरः ष्यञ् भवतीत्वर्थः। वियातत्वं। वियातता। वियातिमा। वैयात्यम्। विलाभिमा। वैलाब्यम्। विमतिमा। वैमत्यम्। इगन्तत्वादणपि—-वैमतम्। विमनिमा। वैमनस्यम्। विशारदिमा। वैशारद्यम्। त्वतलोः समावेशेन—विलाभत्वम्। बिलाभतेत्यादीन्यप्यूह्रानि। `समो मतिमनसोः'। समः परे ये मति मनसी तदन्तयोः समासयोरनन्तरः ष्यञ् भवतीत्यर्थः। संमतित्वम्। संमतिता। संमतिमा। सांमात्यम्। इगन्तत्वादणि—सांमतम्। संमनस्त्वम्। संमनस्ता। संमनिमा। सांमनस्यम्।

Satishji's सूत्र-सूचिः

TBD.