Table of Contents

<<5-1-120 —- 5-1-122>>

5-1-121 न नञ्पूर्वात् तत्पुरुषादचतुरसङ्गतलवणवटबुधकतरसलसेभ्यः

प्रथमावृत्तिः

TBD.

काशिका

इत उत्तरे ये भाव. प्रत्ययाः, ते नञ्पूर्वात् तत्पुरुषात् न भवन्ति चतुरादीन् वर्जयित्वा। वक्ष्यति पत्यन्तपुरोहितादिभ्यो यक् 5-1-128 इति। अपतित्वम्, अपतिता। अपटुत्वम्, अपटुता। अरमणीयत्वम्, अरमणीयता। नञ्पूर्वातिति किम्? बार्हस्पत्यम्। प्राजापत्यम्। तत्पुरुषातिति किम्? न अस्य पटवः सन्ति इति अपटुः, तस्य भावः आपटवम्। आलघवम्। अचतुरादिभ्यः इति किम्? आचतुर्यम्। आसङ्गत्यम्। आलवण्यम्। आवट्यम्। आबुध्यम्। आकत्यम्। आरस्यम्। आलस्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1760 न नञ्पूर्वात्। इतः परमिति। त्वतल्विधेरूध्र्वमित्यर्थः, नञ्पूर्वादित्युत्तरस्य प्रतिषेध इति भाष्यादिति। भावः। चतुरादीनिति। चतुर, सङ्गत, लवण, वट, युध, कत, रस, लस,–एतान्वर्जयित्वेत्यर्थः। अपतित्वमिति। इह`पत्यन्तपुरोहितादिभ्यः' इति यक्न भवति। अपटुत्वमिति। इह`इगन्ताच्च

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

पूर्वा'दित्यण्न भवति। बार्हस्पत्यमिति। `पत्यन्तपुरोहितादिभ्यः' इति यक्। आपटवमिति। `इगन्ताच्च लघुपूर्वा'दित्यण्। अपटुशब्दस्य बहुव्रीहित्त्वात्तत्पुरुषत्वाऽभावान्नास्याऽणो निषेध इति भावः। आचतुर्यमिति। अचतुरस्य भावः। ब्राआहृणादित्वात्ष्यञ्। आसंगत्यमिति। असङ्गतशब्दात्ष्यञ्। आलवण्यमिति। अलवणशब्दात्ष्यञ्। आवट\उfffद्मिति। न वटः अवटः, तस्मात्ष्यञ्। आयुध्यमिति। आयुधशब्दात्ष्यञ्। आकत्यमिति। अकतशब्दात्ष्यञ्। आरस्यमिति। अरसशब्दात्ष्यञ्। आलस्यमिति। लसतीति लसः। न लसः अलसः। तस्मात्ष्यञ्।

तत्त्वबोधिनी

1357 अपतित्वमिति। इह `पत्यन्ये 'ति यग् न भवति। अपटुत्वमिति। इह तु `इगन्ताच्च

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

पूर्वा'दित्यण् न भवति। आचतुर्यमित्यादि। ब्राआहृणादित्वात् ष्यञ्।

Satishji's सूत्र-सूचिः

TBD.