Table of Contents

<<6-4-160 —- 6-4-162>>

6-4-161 र ऋतो हलादेर् लघोः

प्रथमावृत्तिः

TBD.

काशिका

रशब्द आदेशो भवति ऋकारस्य हलादेर् लघोः इष्ठेमेयस्सु परतः। प्रथिष्ठः। प्रथिमा। प्रथीयान्। म्रदिष्ठः। म्रदिमा। म्रदीयान्। ऋतः इति किम्? पटिष्ठः स्। पटिमा। पटीयान्। हलादेः इति किम्? ऋजिष्ठः। ऋजिमा। ऋजीयान्। लघोः इति किम्? कृष्णा कृष्णिष्ठः। कृष्णिमा। कृष्णीयान्। परिगणनम् अत्र कर्तव्यम्। पृथुं मृदुं भृशं च एव कृशं च दृढम् एव च। परिपूर्वं वृढं च एव षडेतान् रविधौ स्मरेत्। ततः इह न भवति, कृतमाचष्टे कृतयति। मातरमाचष्टे मातयति। भ्रातयति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1159 हलादेर्लघोरृकारस्य रः स्यादिष्ठेयस्सु परतः. पृथुमृदुभृशकृशदृढपरिवृढा नामेव रत्वम्..

बालमनोरमा

1762 र ऋतो। र इति प्रथमान्तम्। इष्ठेमेयस्स्विति। शेषपूरणम्। `तुरिष्ठेमेयस्सु' इत्यस्तदनुवृत्तेरिति। भावः। अङ्गस्येत्यधिकृतं हलादेरङ्गस्य लघोरृकारस्य र इति। रेपाकारसङ्गात आदेशः स्यादिष्ठनि इमनिचि ईयसि च परे इत्यर्थः।

तत्त्वबोधिनी

1359 र ऋतो। हलादेः किम्?। ऋजिष्ठः। ऋजीयान्। लघोः किम्?। कृष्णिमा। `पृथुमृदुभृशे 'ति परिगणने तु `हलादेर्लघो'रिति त्यक्तुं शक्यम्।

Satishji's सूत्र-सूचिः

TBD.