Table of Contents

<<5-1-10 —- 5-1-12>>

5-1-11 माणवचरकाभ्यां खञ्

प्रथमावृत्तिः

TBD.

काशिका

माणवचरकशब्दाभ्यां खञ् प्रत्ययो भवति तस्मै हितम् इत्येतस्मिन् विषये। छस्य अपवादः। माणवाय हितम् माणवीनम्। चारकीणम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1651 माणवीनमिति। मनोः कुत्सितमपत्यं माणवः। `अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकोऽण्स्मृतः। नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः' इत्यपत्याधिकारवार्तिकात्। माणवाय हितमिति विग्रहः। चारकीणमिति चरतीति चरः। पचाद्यच्। ततः स्वार्थिकः कः। [चरकाः]। चरकाय हितमिति विग्रहः।

तत्त्वबोधिनी

1275 माणव। खञो ञित्करणं वृद्द्यर्थं स्वरार्थं च। यद्यपि माणवे वृद्धिः स्वतः सिद्धैव, तथापि `माणविनाभार्य'इत्यत्र `वृद्धिनिमित्तस्य चे'ति पुंवद्भावप्रतिषेधार्थमिति ज्ञेयम्। माणवायेति। मनोः कुत्सितमपत्यं माणवः। `अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः। नकारस्य च मूर्धन्यस्तेन सिद्द्यति माणवः'इत्यपत्याधिकारस्थवार्तिकाण्णत्वम्, तच्च वार्तिकमेतत्सूत्रस्थनिर्देशसिद्धार्थकथनपरमित्याहुः। चारकीणमिति। चरतीति चरः। पचाद्यच्। `चरिचलिपतिवदीना'मिति द्विर्वचनं विकल्पितत्वादिह नभवति। ततः संज्ञायां कनि—चरकः।

Satishji's सूत्र-सूचिः

TBD.