Table of Contents

<<5-1-4 —- 5-1-6>>

5-1-5 तस्मै हितम्

प्रथमावृत्तिः

TBD.

काशिका

तस्मै इति चतुर्थीसमर्थाद् ह्तम् इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। वत्सेभ्यो हितो गोधुक् वत्सीयः। अवत्सीयः। पटव्यम्। गव्यम्। हविष्यम्। अपूप्यम्। अपूपीयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1142 प्राक् क्रीतादित्येव. उवर्णान्ताद्गवादिभ्यश्च यत् स्यात्. छस्यापवादः. शङ्कवे हितं शङ्कव्यं दारु. गव्यम्. (नाभि नभं च). नभ्योऽक्षः. नभ्यमञ्जनम्..तस्मै हितम्.. वत्सेभ्यो हितो वत्सीयो गोधुक्..

बालमनोरमा

1643 तस्मै हितम्। असमिन्नर्थे चतुथ्र्यन्ताद्यथाविहितं प्रत्ययाः स्युः। वत्सीय इति। छे रूपम्। यो गोधुग्वत्सेभ्यः पयः शिष्ट्वा दोग्धि स एवमुच्यते। शङ्कव्यमिति। शङ्कवे हितमित्यर्थः। उवर्णान्तत्वाद्यत्। गव्यमिति। गोभ्यो हितं तृणादिकमित्यर्थः। गवादिलक्षणो यत्। हविष्यमिति। हविषे हितमित्यर्थः। हविःशब्दो गवादिः। `विभाषा हवि'रित्यत्र तु हविर्विशेषवाचिनामेव ग्रहणं, व्याख्यानात्।

तत्त्वबोधिनी

1268 `हविरपूपादिभ्यो विभाषाया उगवादिभ्यो यत्पूर्वविप्रतिषेधेन'। सक्तव्या धानाः। चस्व्यास्तण्डुलाः। चरुर्नाम हविरिति काशिका। स्थालीवचनस्य चरुशब्दस्य तत्रत्ये हविषि उपचाराद्वृत्तिरिति कैयटादयः।

Satishji's सूत्र-सूचिः

TBD.