Table of Contents

<<4-4-97 —- 4-4-99>>

4-4-98 तत्र साधुः

प्रथमावृत्तिः

TBD.

काशिका

तत्र इति सप्तमीसमर्थात् साधुः इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। सामसु साधुः सामन्यः। वेमन्यः। कर्मण्यः। शरण्यः। साधुः इह प्रवीणो योग्यो वा गृह्यते, न उपकारकः। तत्र हि परत्वात् तस्मै हितम् 5-1-5 इत्यनेन विधिना भवितव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1137 अग्रे साधुः - अग्र्यः. सामसु साधुः सामन्यः. ये चाभावकर्मणोरिति प्रकृति भावः. कर्मण्यः. शरण्यः..

बालमनोरमा

1630 तत्र साधुः। सप्तम्यन्तात्साधुरित्यर्थे यत्स्यादित्यर्थः। अग्रय इति। अग्रे साधुरित्यर्थः। साधुरत्र प्रवीणो गृह्रते, नतु हितः, तत्र `तस्मै हित'मिति वक्ष्यमाणत्वात्।

तत्त्वबोधिनी

1257 तत्र साधुः। सा4धुरिह प्रवीणो योग्यो वा गृह्रते, निपकर्ता। तत्र हि परत्वात् `तस्मै हित'मित्येन भाव्यम्। संज्ञाधिकारादुपकर्ता न गृह्रत इत्यन्ये।

Satishji's सूत्र-सूचिः

TBD.