Table of Contents

<<4-4-98 —- 4-4-100>>

4-4-99 प्रतिजनाऽदिभ्यः खञ्

प्रथमावृत्तिः

TBD.

काशिका

प्रतिजनादिभ्यः शब्देभ्यः खञ् प्रत्ययो भवति तत्र साधुः इत्येतस्मिन्नर्थे। यतो ऽपवादः। प्रतिजने साधुः प्रातिजनीनः। जने जने साधुः इत्यर्थः। ऐदंहुगीनः। सांयुगीनः। प्रतिजन। इदंयुग। संयुग। समयुग। परयुग। परकुल। परस्यकुल। अमुष्यकुल। सर्वजन। विश्वजन। पञ्चजन। महाजन। प्रतिजनादिः। यत्र हितार्थ एव साध्वर्थस्तत्र वचनात् प्राक्क्रीतीया बाध्यन्ते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1631 प्रतिजनादिभ्यः खञ्। तत्र साधुरित्येव। सप्तम्यन्तेभ्य एभ्यः साधुरित्यर्थे खञ् स्यादित्यर्थः। प्रातिजनीन इति। `प्रतिजन'मिति वीप्सायामव्ययीभावः। तत्र साधुरित्यर्थः। एवं-वै\उfffदाजनीनः।

तत्त्वबोधिनी

1258 प्रतिजनमिति। जनंजनं प्ति[जनो जन इति] प्रतिजनम्। वीप्सायामव्ययीभावः। प्रतिजन, इदंयुग, संयुग, पापकुल, परस्यकुल, अमुष्यकुल, सर्वजन, वि\उfffदाजन, पञ्चजन। `परस्य'`अमुष्य'इति षष्ठ\उfffदेषा निपातनादलुक्।

Satishji's सूत्र-सूचिः

TBD.