Table of Contents

<<4-4-96 —- 4-4-98>>

4-4-97 मतजनहलात् करणजल्पकर्षेषु

प्रथमावृत्तिः

TBD.

काशिका

मतादिभ्यः त्रिभ्यः शब्देभ्यः त्रिष्वेव करणादिष्वर्थेषु यथासङ्ख्यं यत् प्रत्ययो भवति। प्रत्ययार्थसामर्थ्याल् लब्धा षष्ठी समर्थविभक्तिः। मतं ज्ञानं तस्य करणं मत्यम्। भावसाधनं वा। जनस्य जल्पः जन्यः। हलस्यः कर्षः हल्यः। द्विहल्यः। त्रिहल्यः। कर्षणं कर्षः, भावसाधनं वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1256 मत। तस्य करणमिति। कर्मणि षष्ठी। कृतिः—करणं, क्रियतेऽनेनेति वा तरणमित्याशयेनाह—भावः साधनं वेति। जल्पशब्दो भावसाधनः। कर्तरि षष्ठी। हलस्येति। कर्षणं—कर्षः। तद्योगात्कर्मणि षष्ठी। करहणस्य कर्तृत्वविवक्षायां कर्तरि षष्ठी वा। `रथसीते'ति तदन्तविघिः। द्विहल्यः। त्रिहल्यः।

Satishji's सूत्र-सूचिः

TBD.