Table of Contents

<<4-3-65 —- 4-3-67>>

4-3-66 तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः

प्रथमावृत्तिः

TBD.

काशिका

व्याख्यायते ऽनेन इति व्याख्यानं, व्याख्यातव्यस्य नाम व्याख्यातव्यनाम। तस्य इति षष्ठीसमर्थात् व्याखयातव्यनाम्नः प्रातिपदिकाद् व्याख्याने ऽभिधेये यथाविहितं प्रत्ययो भवति तत्र भवे च। वाक्यार्थसमीपे चकारः श्रूयमाणः पूर्ववाख्यार्थम् एव समुच्चिनोति तत्र भव 4-3-53 इति। सुपां व्याख्यानः सौपो ग्रन्थः। तैङः। कार्त्तः। सुप्सु भवं सौपम्। तैङम्। कार्तम्। व्याख्यातव्यनाम्नः इति किम्? पातलिपुत्रस्य व्याख्यानी सुकोशला, पाटलिपुत्रः सुकोशलया व्याख्यायते, एवं संनिवेशं पाटलिपुत्रम् इति, न तु पाटलिपुत्रो व्याख्यातव्यनाम। भवव्याख्यानयोर् युगपदधिकारो ऽपवादविधानार्थः। कृतनिर्देशौ हि तौ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1424 तस्य व्याख्यान इति च। व्याख्यायते अनेनेति व्याख्यानो ग्रन्थः, करणे ल्युट्। तस्य व्याख्यान इति विग्रहे व्याख्यातव्यग्रन्थप्रतिपादकात्षष्ठ\उfffद्न्तात्, भव इत्यर्थे च सप्तम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। चकारः `तत्र भवः' इत्यस्य समुच्चयार्थः। सौप इति। औत्सर्गिको।ञण्। तैङ इति। तिङां व्याख्यानो ग्रन्थ इत्यर्थः। कार्त इति। कृता व्याख्यान इत्यर्थः। अणि आदिवृद्धौ रपरत्वम्। भवार्थे उदाहरति–सौपमिति। नच `तस्येदं' `तत्र भवः' इत्याभ्यामेव भाष्ये स्पष्टम्।

तत्त्वबोधिनी

1114 तस्य व्याख्यान इति च। व्याख्यायते येन स व्याख्यानः। करणे लुट्। `इति'शब्दो वाक्यार्थ परामृशति। तत्समीपे श्रूयमाणश्चकारः `तत्र भवः'इति वाक्यार्थमाक्षिपति। व्याख्यातव्यस्य=ग्रन्थस्य नाम=प्रतिपादकं, तच्च शक्त्या लक्षणय वेत्य [त्र]नाग्रहः। तथा च `षष्ट\उfffद्न्ताव्द्यख्यानकरणार्थे, सप्तन्यन्तात्तु भवार्थे, व्याख्यातव्यस्य ग्रन्थस्य प्रतिपादकात्प्रत्ययाः स्यु'रिति सूत्रार्थः। व्याख्यातव्यस्य नाम्नः किम्?। पाटलिपुत्रस्य व्याख्यानी सुकोसला। पाटलिपुत्रं हि तया व्याख्यायते `ईदृक्संनिवेशविशिष्ट'मिति। न त्विदं व्याख्यातव्यस्य नाम। ग्रन्थेष्वेव व्याख्येयत्वस्य सुप्रसिद्धत्वात्, नामग्रहणं हि प्रसिद्ध्युपस्ङ्ग्रहार्थमेव सूत्रे कृतम्।

Satishji's सूत्र-सूचिः

TBD.