Table of Contents

<<4-3-66 —- 4-3-68>>

4-3-67 बह्वचो ऽन्तोदात्ताट ठञ्

प्रथमावृत्तिः

TBD.

काशिका

बह्वचो व्याख्यातव्यनाम्नः प्रातिपदिकादन्तोदात्ताद् भवव्याख्यानयोः ठञ् प्रत्ययो भवति। अणो ऽपवादः। षात्वणत्विकम्। नातानतिकम्। समासस्वरेण अन्तोदात्ताः प्रकृतयः। बह्वचः इति किम्? द्व्यचः ठकं वक्ष्यति। एकाच् प्रयुदाह्रियते। सौपम्। तैङम्। कार्तम्। अन्योदात्तातिति किम्? संहितायाः सांहितम्। संहिताशब्दो हि गतिस्वरेण अद्युदात्तः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1425 बह्वचोऽन्तोदात्ताट्ठञ्। अन्तोदात्ताद्बह्वच उक्तविषये ठञ्स्यात्। अणोऽपवादः।

तत्त्वबोधिनी

1115 बह्वचो। अणोऽपवादः। बह्वचः किम्?। व्द्यचष्ठकं वक्ष्यतीत्येकाच्प्रत्युदाहार्यः। सौपम्। तैङम्। अन्तोदात्तात्किम्?। संहितायाः संहितम्। `गतिरनन्तरः'इत्याद्युदात्तोऽयम्। अन्तग्रहणं स्पष्टप्रतिपत्त्यर्थम्। उदात्तादित्युक्तेऽपि वर्णग्रहणे तदन्तग्रहणात्, `वर्णादनुदात्ता'दित्यत्र यथा।

Satishji's सूत्र-सूचिः

TBD.