Table of Contents

<<4-3-64 —- 4-3-66>>

4-3-65 कर्णललाटात् कनलङ्कारे

प्रथमावृत्तिः

TBD.

काशिका

कर्णललाटशब्दाभ्यां कन् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये ऽलङ्कारे ऽभिधेये। यतो ऽपवादः। कर्णिका। ललाटिका। अलङ्कारे इति किम्? कर्ण्यम्। ललाट्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1423 कर्णललाटात्। `शरीरावयवाच्चे'ति यतोऽपवादः। कर्णिका ललाटिकेति। कर्णे ललादे भवोऽलङ्कार इत्यर्थः। स्त्रीत्वं लोकात्। टापि `प्रत्ययस्था'दितीत्त्वम्।

तत्त्वबोधिनी

1113 कर्णलाटात्। यतोऽपवादः। अलङ्कारे किम्?। कण्र्यम्। ललाट\उfffद्म्।

Satishji's सूत्र-सूचिः

TBD.