Table of Contents

<<4-3-51 —- 4-3-53>>

4-3-52 तदस्य सोढम्

प्रथमावृत्तिः

TBD.

काशिका

कालातित्येव। तदिति प्रथमासमर्थात् कालवाचिनः प्रातिपदिकातस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत् प्रथमासमर्थं सोढं चेत् तद् भवति। सोढं जितमभ्यस् तम् इत्यर्थः। निशासहचरितम् अध्ययनं निशा, तत् सोढम् अस्य छात्रस्य नैशः, वैशिकः। प्रादोषः, प्रदोषिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1406 तदस्य सोढम्। अस्मिन्नर्थे प्रथमान्ताद्यथाविहितं प्रत्ययाः स्युः। सोढमित्यस्य अभ्यस्तमित्यर्थः। नैशिकः नैश इति। `निशाप्रदोषाभ्यां चे'त्यण्ठञौ।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.