Table of Contents

<<4-3-2 —- 4-3-4>>

4-3-3 तवकममकावेकवचने

प्रथमावृत्तिः

TBD.

काशिका

एकवचनपरयोर् युष्मदस्मदोः तवक ममक इत्येतावादेशौ भवतः यथासङ्ख्यं तस्मिन् खञि अणि च परतः। निमित्तयोस् तु यथासङ्ख्यं पूर्ववदेव न भवति। ननु च न लुमता अङ्गस्य 1-1-63 इति प्रत्ययलक्षणप्रतिषेधादेकवचनपरता युष्मदस्मदोर् न सम्भवति? वचनात् प्रत्ययलक्षणम् भविष्यति। अथ वा न एव इदं प्रत्ययलक्षणं, किं तर्ह्यन्वर्थग्रहणम्। एकवचने युष्मदसमादी एकस्य अर्थस्य वाचके तवकममकावादेशौ प्रतिपद्येते इति सूत्रार्थः। तावकीनः। मामकीनः। तावकः। मामकः। तस्मिन्नणि च इत्येव, त्वदीयः। मदियः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1084 एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञि अणि च. तावकीनः. तावकः. मामकीनः. मामकः. छे तु -.

बालमनोरमा

1352 तवकममकौ। `एकवचने' इति युष्मदस्मदोः प्रकृत्योर्विशेषणम्। एकस्य वचनम्=उक्तिः-एकवचनम्। एकस्योक्तौ व्याप्रियमाणयोरिति लभ्यते। तदाह– एकार्थवाचिनोरिति। छे त्विति। `एकार्थवृत्तयोर्विशेषो वक्ष्यते' इति शेषः।

तत्त्वबोधिनी

1068 तवक। इह पूर्ववदेव निमित्तयोः खञणोरादेशौ प्रति यथासङ्ख्यं न भवति, किंतु स्थान्यादेशयोरेवेत्याशयेनोदाहरति—-तावकीनः। मामकीन इति। परावरा `परावराधमोत्तमेभ्यः'इत्येव वक्तव्ये पूर्वग्रहणं पूर्वविप्रतिषेधसूचनार्थम्। तेन दिक्शब्दयोः परावरयोकर्धशब्देन समासे उत्तरसूत्रेण प्राप्तावपि ठञ्यतौ बाधित्वा यदेव भवति।

Satishji's सूत्र-सूचिः

TBD.