Table of Contents

<<4-3-1 —- 4-3-3>>

4-3-2 तस्मिन्नणि च युष्माकास्माकौ

प्रथमावृत्तिः

TBD.

काशिका

तस्मिनिति साक्षाद् विहितः खञ् निर्दिष्यते, न चकारानुकृष्टः छः। तस्मिन् खञि अणि च युष्मदस्मदोर् यथासङ्ख्यं युष्माक अस्माक इत्येतावादेशौ भवतः। निमित्तयोरादेशौ प्रति यथासङ्खं कस्मान् न भवति? योगविभागः करिष्यते, तस्मिन् खञि युष्मदस्मदोः युष्माकास्माकौ भवतः, ततो ऽणि च इति। यौष्माकीणः। आस्माकीनः। यौष्माकः। आस्माकः। तस्मिनणि च इति किम्? युष्मदीयः। अस्मदीयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1083 युष्मदस्मदोरेतावादेशौ स्तः खञ्यणि च. यौष्माकीणः. आस्माकीनः. यौष्माकः. आस्माकः..

बालमनोरमा

1351 अथ खञि अणि च विशेषमाह–तस्मिन्नणि च। पूर्वसूत्रे निर्दिष्टः खञ् तच्छब्देन परामृश्यते। तदाह–खञि अणि चेति। अत्र स्थानिनोरादेशयोश्च यथासङ्ख्यं, न तु परनिमित्तयोः, तस्मिन्नणीति व्यस्तनिर्देशात्। यौष्माकीण इति। युवयोर्युष्माकं वा अयमिति विग्रहः। खञ्, ईनादेशः, युष्माकादेशः आदिवृद्धिः, णत्वम्। आस्माकीन इति। आवयोरस्माकं वा अयमिति विग्रहः। अणि उदाहरति–यौष्माकः आस्माक इति।

तत्त्वबोधिनी

1067 तस्मिन्नणि च। तस्मिन्निति साक्षाद्विहितः खञ्निर्दिश्यते, नतु चानुकष्टः। निमित्तयोरादेशौ प्रति यखासङ्ख्यं तु न भवति, `खञणो'रिति वक्तव्ये पृथग्विभक्तिनिर्देशसामथ्र्यात्। स्थान्यादेशयोस्तु इष्यत एव तत्।

Satishji's सूत्र-सूचिः

TBD.