Table of Contents

<<4-3-15 —- 4-3-17>>

4-3-16 सन्धिवेलाऽद्यृतुनक्षत्रेभ्यो ऽण्

प्रथमावृत्तिः

TBD.

काशिका

कालातित्येव। सन्धिवेलाऽदिभ्यः ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्यो ऽण् प्रत्ययो भवति शैषिकः। ठञो ऽपवादः। अण्ग्रहणम् वृद्धाच्छस्य 4-2-114 बाधनार्थम्। सन्धिवेलादिभ्यस् तावत् सान्धिवेलम्। सांध्यम्। ऋतुभ्यः ग्रैष्मम्। शैशिरम्। नक्ष्त्रेभ्यः तैषम्। पौषम्। सन्धिवेला। सन्ध्या। अमावास्या। त्रयोदशी। चतुर्दशी। पञ्चदशी। पौर्णमसी। प्रतिपद्। संवत्सरात् फलपर्वणोः सांवत्सरं फलम्। सांवत्सरं पर्व।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1367 सन्धिवेलां। कालवृत्तिभ्य इति। `कालाट्ठ]ञित्यतस्तदनुवृत्तेरिति भावः। ठञोऽपवादः। तैषमिति। तिष्ये भवादीत्यर्थः। `तिष्टपुष्ययोर्नक्षत्राऽणी'ति। यलोपः। तिष्ये जात इत्यर्थे `श्रविष्ठाफल्गुनी'ति लुग्वक्ष्यते। सन्धिवेलादिगणं पठति– सन्धिवेलेत्यादि। संवत्सरात्फलपर्वणोरिति। गणसूत्रमिदम्।

तत्त्वबोधिनी

1076 सन्धिवेला। अण्ग्रहणं तु छबाधनार्थम्। अन्यथा `सन्धिवेलादिभ्यो यथाविहितं प्रत्ययाः स्युः' इत्यक्ते पौर्णमासीशब्दात् `वृद्धाच्छः'स्यात्। वचनं तु ठञो बाधनाय स्यादिति भावः। तैषमिति। तिष्याद्भवादावण्। जातार्थे तु `श्रविष्ठाफाल्गुनी'ति लुक्स्यात्। `सूर्यतिष्ये'त्यत्र `तिष्यपुष्ययोर्नक्षत्राऽणि'इति वचनाद्यलोपः।

Satishji's सूत्र-सूचिः

TBD.