Table of Contents

<<4-3-16 —- 4-3-18>>

4-3-17 प्रावृष एण्यः

प्रथमावृत्तिः

TBD.

काशिका

प्रावृष्शब्दादेण्यः प्रत्ययो भवति शैषिकः। ऋत्वणो ऽपवादः। प्रावृषेण्यः बलाहकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1088 प्रावृषेण्यः..

बालमनोरमा

1368 प्रावृष एण्यः। ऋत्वणोऽपवादः। प्रावृषेण्य इति। प्रावृट्-वर्पर्तुः। तत्र भवादिरित्यर्थः। जाते तु ठब् वक्ष्यते। प्रक्रियालाघवार्थं णकारोच्चारणम्।

तत्त्वबोधिनी

1077 प्रावृष एण्यः। ऋत्वणोऽपवादः। प्रवर्षतीति प्रावृट् `नहिवृती'ति दीर्घः। तत्र भवः। जाते तु ठपं वक्ष्यति। `रषाभ्यां'मिति सिद्धे प्रक्रियालाघवार्थं णकारोच्चारणमित्याहुः। किंच प्रावृषएण्यमाचक्षाणः प्रावृषेण् इत्यत्र णकारश्रवणार्थमपि तत्। ण्यन्तात्क्विपि टिलोपणिलोपयलोपाः।

Satishji's सूत्र-सूचिः

TBD.