Table of Contents

<<4-3-167 —- 4-4-1>>

4-3-168 कंसीयपरशव्ययोर् यञञौ लुक् च

प्रथमावृत्तिः

TBD.

काशिका

प्राक् क्रीताच् छः 5-1-1), कंसीयः। उगवादिभ्यो यत् (*5,1.2, परशव्यः। कंसीयपरशव्यशब्दाभ्यां यथासङ्ख्यं यञञौ प्रत्ययौ भवतः तस्य विकारः इत्येतस्मिन् विषये, तत्संनियोगेन च कंसीयपरशव्ययोः लुग् भवति। कंसीयस्य विकारः कांस्यः। परशव्यस्य विकारः पारशवः। प्रातिपदिकाधिकाराद् धातुप्रत्ययस्य न लुग् भवति। परशव्यशब्दादनुदात्ताऽदित्वादेव अञि सिद्धे लुगर्थं वचनम्। ननु च यस्य इति च 6-4-148) इति लोपे कृते हलस् तद्धितस्य (*6,4.150 इति यलोपो भविष्यति? ना एअदस्ति, ईति इति तत्र वर्तते। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य तृतीयः पादःचतुर्थाध्यायस्य चतुर्थः पादः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1605 कंसीयपरशब्द। अत्र यञञोर्न लुक्, विधिवैयथ्र्यात्। नापि प्रकृत्योः, प्रत्ययाऽदर्शनस्यैव लुक्त्वात्। अतः परिशेषात्प्रकृत्येकदेशयोश्छयतोरिति लभ्यते। तदाह–छयतोरिति। कंसीयमिति। कंसो नाम धातुर्लोहविशेषः। `तस्मै हित'मिति छः। कांस्यमिति। कंसीयशब्दाद्यञि छस्य लुकि आदिवृद्धौ `यस्येति चे'त्यकारलोपः। परशब्दमिति। `तस्मै हित'मित्यधिकारे `उगवादिभ्यो य'दिति ओर्गुणे `वान्तो यी'त्यवादेशः। पारशव इति। परशब्दशब्दादञि यतो लुकि ओर्गुणे पारशवः। `हलस्तद्धितस्ये'ति तु न, ईतीत्यनुवृत्तेः। अनापत्यत्वात् `आपत्यस्य चे'त्यपि लोपो न प्रसज्यत इति भावः। प्राग्दीव्यतीयाः।* प्रकरणम्।

तत्त्वबोधिनी

121 कंसीयमिति। `प्राक्क्रीताच्छः'इत्यधिकारे `तस्मै हित'मिति छः। तस्यै छस्यापवादतया `उगवादिभ्यो यत्'—परशव्यं दारु। परशव्यशब्दस्याऽनुदात्तादित्वादञि [#ः] सिद्धे तत्संनियोगेन यतो लुगर्थं वचनम्। नच `यस्येति'यलोपे कृते `हलस्तद्धितस्ये'ति यलोपेन सिद्धमिष्टमिति भ्रमितव्यम्, ईतीत्यनुवृत्तेः। \र्\निति तत्त्वबोधिन्याम् विकारार्थाः प्राग्दीव्यतीयाश्च। विसर्गसन्धिः॥ `स्वैजसमौ'डिति सुप्रत्यये तस्य रुत्वे `खरवसानयो'रिति विसर्गे च कृते `विसर्जनीयस्य स' इति सः। अस्य च रुत्वं नाशङ्क्यम्, रुत्वं प्रति विसर्जनीयसत्वस्याऽसिद्धत्वात्।

Satishji's सूत्र-सूचिः

TBD.