TBD.
समुद्रसमीपे यो द्वीपः, तस्माद् यञ् प्रत्ययो भवति शैषिकः। कच्छादिपाठातणो, मनुष्यवुञः चापवादः। द्वैप्यम्। द्वैप्यं भवन्तो ऽनुचरन्ति चक्रम्। अनुसमुद्रम् इति किम्? द्वैपकम्। द्वैपमन्यत्।
TBD.
–
1360 द्वीपादनु। `अनुसमुद्र'मिति सामीप्ये अव्ययीभावः। अनुसमुद्रमिति सप्तम्यन्तम्, विद्यमानादित्यध्याहार्यम्। तदाह–समुद्रस्य समीपे इति। द्वैप्येति। `यञश्चे'ति ङीप् तु न, `अनपत्याधिकारस्थान्ने'ति तन्निषेधात्।
1071 द्वीपादनु। समुद्रं समया अनुसमुद्रम्। `अनुर्यत्समया'इत्यव्ययीभावः। सप्तम्यन्तं चेदम्, विद्यमानक्रियाद्वारा द्वीपविशेषणमित्याशयेनाह—समुद्रसमीपे यो द्वीप इति। कच्छाद्यणो मनुष्यवुञश्चापवादोऽयम्। अनुसमुद्रं किं?। द्वैपमन्यत्। कच्छाद्यण्। द्वैपको मनुष्यः। `मनुष्यतत्स्थो'रिति वुञ्। द्वैप्येति। `यञश्चे'ति ङीब्न भवति, `अपत्याधिकारस्थादेव यञो ङी'बिति प्रागेवोक्तत्वात्।
TBD.