Table of Contents

<<4-3-11 —- 4-3-13>>

4-3-12 श्राद्धे शरदः

प्रथमावृत्तिः

TBD.

काशिका

शरच्छब्दात् ठञ् प्रत्ययो भवति श्राद्धे ऽभिधेये शैषिकः। ऋत्वणः अपवादः। श्राद्धे इति च कर्म गृह्यते, न श्रद्धावान् पुरुषः, अनभिधानात्। शारदिकं श्राद्धम्। शारदम् अन्यत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1362 श्राद्धे शरदः। ठञ् स्यादिति। शेषपूरणमिदम्। ननु `कालाट्ठ'ञित्येव सिद्धे किमर्थमिदमित्यत आह–ऋत्वण इति। `सन्धिवेसाद्यृतुनक्षत्रेभ्योऽणि'ति वक्ष्यमाणस्येत्यर्थः। शारदिकमिति। शरदि ऋतौ भवमित्यर्थः। शरच्छब्दस्य संवत्सरवाचित्वे तु पूर्वेणैव सिद्धम्।

तत्त्वबोधिनी

1073 श्राद्धमिति। भक्त्या क्रियमाणं पित्र्यं कर्मेत्यर्थः। `प्रज्ञाश्रद्धार्चाभ्योऽणः'इति मत्वर्थीयेन व्युत्पादितः श्रद्धातान्पुरुषस्तु न गृह्रते, अनभिधानात्।

Satishji's सूत्र-सूचिः

TBD.