Table of Contents

<<4-3-107 —- 4-3-109>>

4-3-108 कलापिनो ऽण्

प्रथमावृत्तिः

TBD.

काशिका

कलापिशब्दादण् प्रत्ययो भवति तेन प्रोक्तम् इत्येतस्मिन् विषये। वैशम्पायनान्तेवासित्वाण् णिनेरपवादः। कलापिना प्रोक्तम् अधीयते कालापाः। इनण्यनपत्ये 6-4-164 इति प्रकृतिभावे प्राप्ते, न अन्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमितैतलिजाजलिजाङ्गलि. लाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणाम् उपसङ्ख्यानम्। इति टिलोपः। अथाण्ग्रहणं किम्, यथाप्राप्तम् इत्येव सिद्धम्? अधिकविधानार्थं, तेन माथुरी वृत्तिः, सौलभानि ब्राह्मणानि इत्येवम् आदि सिद्धम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1467 कलापिनोऽण्। `तेन प्रोक्त'मित्येव वैशम्पायनशिष्यत्वात् प्राप्तस्य णिनेरपवादः। कालापा इति। कलापिन्शब्दादणि टिलोपे कालापशब्दादध्येतृप्रत्ययस्य छस्य लुगिति भावः।

तत्त्वबोधिनी

1147 कलापिनोऽण्। वैशंपायनान्तेवासित्वात्प्राप्तस्य णिनेरपवादः। `इनण्यनपत्ये'इति प्रकृतिभावे प्राप्ते आह–। सब्राहृचारिपीठसर्पिकलापिकौथमितैतिलिजाजलिलाङ्गलिशिलालिलशिखाण्डिसूकरसद्मसुपर्वणामुपसङ्ख्यानम्। नान्तस्य टिलोप इति। माथुरी वृत्तिः, मौदाःल पैप्पलादाः शाकला इति सिद्धम्। मुद पिप्पलाद शाकल—एभ्यः `पुरामप्रोक्तेषु'इति णिनेरपवादोऽण्। छगलिनो ढिनुक्। कलाप्यन्तेवासित्वात्प्राप्तस्य णिनेरपवादोऽयम्।

Satishji's सूत्र-सूचिः

TBD.