Table of Contents

<<4-3-106 —- 4-3-108>>

4-3-107 कठचरकाल् लुक्

प्रथमावृत्तिः

TBD.

काशिका

कठचरकशब्दाभ्यां परस्यप्रोक्तप्रत्ययस्य लुग् भवति। कठशब्दाद् वैशम्पायनान्त्तेवासिभ्यः इति णिनेः, चरकशब्दादप्यणः। कठेन प्रोक्तम् अधीयते कठाः। चरकाः। छन्दसि इत्येव। काठाः। चारकाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1466 कठचरकाल्लुक्। प्रोक्तप्रत्ययस्येति। प्रकरणलभ्यम्। कठा इति। वैशम्पायनान्तेवासित्वलक्षणणिनो लुक्। अध्येत्रणस्तु `प्रोक्ताल्लु'गिति लुक्। चराका इति। चरकेण प्रोक्तमधीयते। इत्यर्थः। प्रोक्ताणोऽनेन लुक् अध्येत्रणः प्रोक्ताल्लुक्।

तत्त्वबोधिनी

1146 कठचरकाल्लुक्। कठशब्दस्य वेशंपायनान्तेवासित्वा ण्णिनिः चरकादण्। तयोर्लुक्। छन्दसीत्येव। काठाः। चारकाः। श्र्लोकाः।

Satishji's सूत्र-सूचिः

TBD.