Table of Contents

<<4-3-106 —- 4-3-108>>

4-3-107 कठचरकाल् लुक्

प्रथमावृत्तिः

TBD.

काशिका

कठचरकशब्दाभ्यां परस्यप्रोक्तप्रत्ययस्य लुग् भवति। कठशब्दाद् वैशम्पायनान्त्तेवासिभ्यः इति णिनेः, चरकशब्दादप्यणः। कठेन प्रोक्तम् अधीयते कठाः। चरकाः। छन्दसि इत्येव। काठाः। चारकाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1466 कठचरकाल्लुक्। प्रोक्तप्रत्ययस्येति। प्रकरणलभ्यम्। कठा इति। वैशम्पायनान्तेवासित्वलक्षणणिनो लुक्। अध्येत्रणस्तु `प्रोक्ताल्लु'गिति लुक्। चराका इति। चरकेण प्रोक्तमधीयते। इत्यर्थः। प्रोक्ताणोऽनेन लुक् अध्येत्रणः प्रोक्ताल्लुक्।

तत्त्वबोधिनी

1146 कठचरकाल्लुक्। कठशब्दस्य वेशंपायनान्तेवासित्वा ण्णिनिः चरकादण्। तयोर्लुक्। छन्दसीत्येव। काठाः। चारकाः। श्र्लोकाः।

Satishji's सूत्र-सूचिः

TBD.