Table of Contents

<<4-3-108 —- 4-3-110>>

4-3-109 छगलिनो ढिनुक्

प्रथमावृत्तिः

TBD.

काशिका

छङ्गलिन्शब्दात् ढिनुक् प्रत्ययो भवति तेन प्रोक्तम् इत्येतस्मिन् विषये। कलाप्यन्तेवासित्वाण् णिनेरपवादः। छङ्गलिना प्रोक्तम् अधीयते छागलेयिनः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1468 छगलिनो। छगलिन्शब्दाक्तविषये ढिनुक्प्रत्ययः स्यादित्यर्थः। कलाप्यन्तेवासित्वात्प्राप्तस्य णिनेरपवादः। छागलेयिन इति। ककार इत्। उकार उच्चारणार्थः। `ढिन्' शिष्यते। ढस्य एय्। टिलोपः। ततोऽध्येतृप्रत्ययस्य लुगिति भावः। पाराशर्य णिनिः स्यादिति। `उक्तविषये' इति शेषः। मण्डूकप्लुत्या णिनिरेवानुवर्तते इति भावः। पाराशर्येण प्रोक्तं भिक्षुसूत्रमित्यर्थे, शिलालिना प्रोक्तं नटसूत्रमित्यर्थे च तृतीयटान्ताण्णिनिः स्यादिति यावत्। भिक्षवः=संन्यासिनः, तदधिकारिकं सूत्रं भिक्षुसूत्रं=व्यासुप्रणीतं प्रसिद्धम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.