Table of Contents

<<4-3-100 —- 4-3-102>>

4-3-101 तेन प्रोक्तम्

प्रथमावृत्तिः

TBD.

काशिका

तेन इति तृतीयासमर्थात् प्रोक्तम् इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। प्रकर्षेण उक्तम् प्रोक्तम् इत्युच्यते, न तु कृतम्, कृते ग्रन्थे 4-3-116 इत्यनेन गतार्थत्वात्। अन्येन कृता माथुरेण प्रोक्ता माथुरी वृत्तिः। पाणिनीयम्। आपिशलम्। काशकृत्स्नम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1111 पाणिनिना प्रोक्तं पाणिनीयम्..

बालमनोरमा

1460 तेन प्रोक्तम्। अस्मिन्नर्थे तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। पाणिनीयमिति। `व्याकरण'मिति शेषः। वृद्धाच्छः। प्रथमं प्रकाशितं–प्रोक्तम्। नेह– `देवदत्तेनाद्यापितम्'।

तत्त्वबोधिनी

1142 तोन प्रोक्तम्। प्रकर्षेणोक्तं प्रोक्तमित्युच्यते, न तु कृतं, `कृते ग्रन्थे'इत्यनेन गतार्थत्वात्। पाणिनिना प्रोक्तमिति। स्वयमन्येवा वा कृतं व्याकरणमध्यापनेनार्थव्याख्यानेन वा प्रकाशितमित्यर्थः। प्रेति किम्?। देवदत्तेनाध्यपितं। प्रख्यातस्यैव ग्रन्थस्याध्यापनमिति नानेन प्रत्ययः।

Satishji's सूत्र-सूचिः

TBD.