Table of Contents

<<4-3-101 —- 4-3-103>>

4-3-102 तित्तिरिवरतन्तुखण्डिकौखाच् छण्

प्रथमावृत्तिः

TBD.

काशिका

तित्तिर्यादिभ्यः शब्देभ्यः छण् प्रत्ययो भवति तेन प्रोक्तम् इत्येतस्मिन् विषये। अणो ऽपवादः। तित्तिरिणा प्रोक्तम् अधीयते तैत्तिरीयाः। वारतन्तवीयाः। खाण्दिकीयाः। औखीयाः। छन्दसि च अयम् इष्यते। तित्तिरिणा प्रोक्तः श्लोकः इत्यत्र न भवति। शौनकादिभ्यश् छन्दसि 4-3-106 इत्यत्र अस्य अनुवृत्तेः छन्दो ऽधिकारविहितानां च तद्विषयता इष्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1461 तित्तिरिवरतन्तु। तेन प्रोक्त'मित्येव। तित्तिरि, वरतन्तु, खण्डिक, उख-एभ्य उक्तविषये छण्स्यादित्यर्थः। इत आरभ्य `तेनैकदि'गितिपर्यन्तं प्रोक्ते वेदे भवन्ति, `शौनकादिभ्यः छन्दसी'ति छन्दोग्रहणस्य ततः पूर्व ततद उत्तरं चापकर्षानुवृत्त्योरभ्युपगमात्। अत्र छणादिप्रत्ययान्तानामेषां केवलानां न प्रयोगः, किंत्वध्येतृवेदितृप्र्तययशिरस्काणामेवेत्याह–छन्दोब्राआहृणानीति। तद्विषयतेति। अध्येतृवेदितृप्रत्ययशिरस्कत्वनियम इत्यर्थः। तैत्तिरीया इति। प्रोक्ते वेदे छण्। ईयः। तैत्तिरीयः=शाखाभेदः, तमधीयते विदन्ति वेत्यर्थे अण्। `प्रोक्ताल्लु'गिति तस्य लुगिति भावः। वारतन्तवीयाः। खाण्डिकीयाः। औखीयाः। तित्तिरिणा प्रोक्तः श्लोक' इत्यत्र तु न, छन्दसीत्यनुवृत्तेः। छन्दःशब्देन च कल्पसूत्राणामपि ग्रहणं, तेषां सर्वशाखागतविधिवाक्यसङ्ग्रहात्मकत्वात्। काश्यप। `तेन प्रोक्त'मित्येव। छस्यापवादः।

तत्त्वबोधिनी

1143 तित्तिरिवर। अणोऽपवादः। तद्विषयतेति। `शौनकादिभ्यश्छन्दसी'त्यत्रास्यानुवृत्तिस्तित्तिरिणा प्रोक्तः श्र्लोक इत्यत्र न भवतीति भावः। तैत्तिरीयै इति। `प्रोक्ताल्लु'गित्यध्येतृप्रत्ययस्य लुक्॥ एवमग्रेऽपि।

Satishji's सूत्र-सूचिः

TBD.