Table of Contents

<<4-3-99 —- 4-3-101>>

4-3-100 जनपदिनां जनपदवत् सर्वं जनपदेन समानशब्दानां बहुवचने

प्रथमावृत्तिः

TBD.

काशिका

जनपदिनो ये बहुवचने जनपदेन समानशब्दास् तेषां जनपदवत् सर्वं भवति, प्रत्ययः प्रकृतिश्च सो ऽस्य भक्तिः इत्येतस्मिन् विषये। जनपदतदवध्योश्च इत्यत्र प्रकरणे ये प्रत्यया विहिताः, ते जनपदिभ्यो ऽस्मिन्नर्थे ऽतिदिश्यन्ते। जनपदिनो जनपदस्वामिनः क्षत्रियाः। अङ्गा जनपदो भक्तिरस्य आङ्गकः। वाङ्गकः। सौह्मकः। पौण्ड्रकः। तद्वतङ्गाः क्षत्रिया भक्तिरस्य आङ्गकः। वाङ्गकः। सौह्मकः। पौण्ड्रकः। जनपदिनाम् इति किम्? पञ्चालाः ब्राह्मणा भक्तिरस्य पाज्चालः। सर्वग्रहणं प्रकृत्यतिदेशार्थं, स च द्व्येकयोः प्रयोजयति, वृद्धिनिमित्तेषु च वुञादिषु विशेषो न अस्ति इति। मद्रवृज्योः कनि विशेषः। मद्रस्यापत्यं, द्व्यञ्मगधकलिङ्गसूरमसादण् 4-1-170, माद्रः। वृजिशब्दादपि, वृद्धैत्कोसलाजादाञ् ञ्यङ् 4-1-171, वार्ज्यः। स भक्तिरस्य इति प्रकृतिनिर्ह्रासे कृते, मद्रकः। वृजिकः। जनपदेन समानशब्दानाम् इति किम्? अनुष्ण्डो जनपदः पौरवो राजा, स भक्तिरस्य, पौरवीयः। बहुवचनग्रहणं समानशब्दताविषयलक्षणार्थम्। अन्यथा हि यत्र एव समानशब्दता तत्र एव अतिदेशः स्यात्, एकवचनद्विवचनयोर् न स्यात्, वाङ्गो वङ्गौ वा भक्तिरस्य इति। बहुवचने तु, बहुवचने समानशब्दानाम् एकवचनद्विवचनयोः सत्यपि शब्दभेदे ऽतिदेशो भवति। वाङ्गः वाङ्गौ वा भक्तिरस्य वाङ्गक।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1459 जनपदिनां। बहुवचने परे ये जनपदे समानशब्दाः=जनपदवाचिशब्देन समानः शब्दः=श्रवणं येषां तथाविधाः, तेषां जनपदिनां=जनपदस्वामिवाचिनां जनपदवत्=जनपदे इव सर्वं स्यादित्यर्थः। `जनपदतदवध्योश्चे'ति प्रकरणे ये प्रत्यया विहितास्ते भवन्ति, प्रकृतयोऽपि तथैव भवन्तीति तु `सर्व' शब्दाल्लभ्यते। तदाह– जनपदस्वामिवाचिनामित्यादिना। अङ्गा जनपद इति। दृष्टान्तार्थमिदम्। अङ्गनाम्नां राज्ञां निवासो जनपदः-अङ्गाः। `जनपदे लुप्' इति चातुरर्थिकस्य लुप्। स जनपदो भक्तिरस्येत्यर्थे `जनपदतदवध्योश्चे'ति वुञ्प्रत्यये `आङ्गकः' इति यथा तथा अङ्गदेशस्वामिनः क्षत्रिया अङ्गा भक्तिरस्येत्यर्थे क्षत्रियवाचकादङ्गशब्दाद्वुञि `आङ्गका' इति रूपमित्यर्थः। पञ्चाला ब्राआहृणा इति। अभेदोपचारादिह ब्राआहृणेषु पञ्चालशब्दः। तत्रातिदेशा।ञभावादणेव भवति। पौरव इति। पौरवशब्दो न जनपदवृत्तिरिति भावः। बहुवचने किम् ?। एकवचनद्विवचनयोः सत्यपि शब्दभेदेऽतिदेशो भवतचि। यथा आङ्गो वा आङ्गौ वा भक्तिरस्य आङ्गक इति। प्रकृतिश्चेति किम् ?। मद्राणां राजा माद्रः। `द्य्वञ्मगधे'त्यण्। माद्रो भक्तिरस्येत्यर्थे अतिदेशान्माद्रस्य मद्रत्वे सति `मद्रवृज्यो'रिति कनि `माद्रक' इति सिध्यति।

तत्त्वबोधिनी

1141 जनपदिनां। स्वस्वामिभावसंबन्धे मत्वर्थयं दर्शयित—जनपदस्वमिवाचिनामिति। प्रत्ययः प्रकृतिश्चेति। अनेन सर्वशब्दस्यार्थो दर्शितः। असति सर्वग्रहणे प्राधान्यात्प्रत्ययस्यैवातिदेशः स्यान्न, तु प्रकृतेरिति हरदत्तःष। अत्र वार्तिककारः सर्वशब्दस्य प्रयोजनमाह—`सर्ववचनं प्रकृतिनिह्र्यासार्थं, तच्च मद्रवृज्यर्थ'मिति। अयं भावः—वृद्धिनिमित्तेषु वुञादिष्वतिदिष्टेऽपि प्रकृतिरूपे पुनर्वृद्द्या भाव्यमिति विशेषस्य तत्र दुर्लभत्वान्मद्रवृज्योः कनि विशेषो बोध्यः। सोऽप्यबहुत्वे एवेति। निह्र्यासोऽपचयोऽल्पता। तथा हि मद्राणां राजा। `व्द्यञ्मगधे'त्यण्। माद्रः। वजिशब्दातच् `वृद्देत्कोशले'ति ञ्यङ्। वार्ज्यः। स भक्तिरस्येति प्रकृतिनिह्र्यासे–मद्रकः। वृजिकः। `मद्रवृज्योः कन्। अन्यथा माद्रकः वाज्र्यक इति स्यात्। आङ्गक इति। `जनपदतदवध्योश्च' `अवृद्धादपी'ति वुञ्। अङ्गशब्दात्स्वामिवाचिनो बहुवचनान्तादणि प्राप्ते वुञतिदिश्यते। पञ्चाला ब्राआहृणा इति। अभेदोपचारद्ब्राआहृणेषु पञ्चालशब्दस्य वृत्तिः। बहुवचनग्रहणं किम्?। एकवचनद्विवचनयोः सत्यपि शब्दभेदे अतिदेशो यथा स्यात्। आह्गः आङ्गौ वा भक्तिस्य आङ्गकः। इह वृद्धाच्छ#ए प्राप्ते वुञ्।

Satishji's सूत्र-सूचिः

TBD.